ब्रह्मसूत्र

Introduction for Chapter 1, Quarter 4


।।ब्रह्मसूत्रभाष्यम्।।

।।प्रथमोऽध्यायः।।
।।चतुर्थः पादः।।

ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणो लक्षणमुक्तम् जन्माद्यस्य यतः इति। तल्लक्षणं प्रधानस्यापि समानमित्याशङ्क्य तदशब्दत्वेन निराकृतम् ईक्षतेर्नाशब्दम् इति। गतिसामान्यं च वेदान्तवाक्यानां ब्रह्मकारणवादं प्रति विद्यते न प्रधानकारणवादं प्रतीति प्रपञ्चितं गतेन ग्रन्थेन। इदं त्विदानीमवशिष्टमाशङ्क्यते यदुक्तं प्रधानस्याशब्दत्वम् तदसिद्धम् कासुचिच्छाखासु प्रधानसमर्पणाभासानां शब्दानां श्रूयमाणत्वात् अतः प्रधानस्य कारणत्वं वेदसिद्धमेव महद्भिः परमर्षिभिः कपिलप्रभृतिभिः परिगृहीतमिति प्रसज्यते तद्यावत्तेषां शब्दानामन्यपरत्वं न प्रतिपाद्यते तावत्सर्वज्ञं ब्रह्म जगतः कारणमिति प्रतिपादितमप्याकुलीभवेत् अतस्तेषामन्यपरत्वं दर्शयितुं परः संदर्भः प्रवर्तते।।