‹‹ ‹ › ››
सूत्र
तदा द्रष्टुः स्वरूपेऽवस्थानम्।।1.3।।
भाष्य
।।1.3।। स्वरूपप्रतिष्ठा तदानीं चितिशक्तिर्यथा कैवल्ये। व्युत्थानचित्ते तु सति तथाऽपि भवन्ति न तथा।कथं तर्हि दर्शितविषयत्वात्
भोजवृत्ति
।।1.3।। द्रष्टुः पुरुषस्य तस्मिन्काले स्वरूपे चिन्मात्रतायामवस्थानं स्थितिर्भवति। अयमर्थः उत्पन्नविवेकख्यातेश्चित्संक्रमाभावात् कर्तृत्वाभिमाननिवृत्तौ प्रोच्छन्नपरिणामायां बुद्धौ चाऽत्मानः स्वरूपेणावस्थानं स्थितिर्भवति।व्युत्थानदशायान्तु तस्य किं रूपम् इत्याह