ब्रह्मसूत्र

आनन्दमयोऽभ्यासात्।।1.1.12।।

आनन्दमयाधिकरणम्।।1.1.12।।

तैत्तिरीयके अन्नमयं प्राणमयं मनोमयं विज्ञानमयं चानुक्रम्याम्नायते तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्मानन्दमयः इति। तत्र संशयः किमिहानन्दमयशब्देन परमेव ब्रह्मोच्यते यत्प्रकृतम् सत्यं ज्ञानमनन्तं ब्रह्म इति किं वान्नमयादिवद्ब्रह्मणोऽर्थान्तरमिति। किं तावत्प्राप्तम् ब्रह्मणोऽर्थान्तरममुख्य आत्मानन्दमयः स्यात्। कस्मात् अन्नमयाद्यमुख्यात्मप्रवाहपतितत्वात्। अथापि स्यात्सर्वान्तरत्वादानन्दमयो मुख्य एवात्मेति न स्यात्प्रियाद्यवयवयोगाच्छारीरत्वश्रवणाच्च। मुख्यश्चेदात्मा स्यान्न प्रियादिसंस्पर्शः स्यात्। इह तु तस्य प्रियमेव शिरः इत्यादि श्रूयते। शारीरत्वं च श्रूयते तस्यैष एव शारीर आत्मा यः पूर्वस्य इति। तस्य पूर्वस्य विज्ञानमयस्यैष एव शारीर आत्मा य एष आनन्दमय इत्यर्थः। न च सशरीरस्य सतः प्रियाप्रियसंस्पर्शो वारयितुं शक्यः। तस्मात्संसार्येवानन्दमय आत्मेत्येवं प्राप्ते
इदमुच्यते

आनन्दमयोऽभ्यासात्। पर एवात्मानन्दमयो भवितुमर्हति। कुतः अभ्यासात्। परस्मिन्नेव ह्यात्मन्यानन्दशब्दो बहुकृत्वोऽभ्यस्यते। आनन्दमयं प्रस्तुत्य रसो वै सः इति तस्यैव रसत्वमुक्त्वा उच्यते रस््येवायं लब्ध्वानन्दीभवति। को ह्येवान्यात्कः प्राण्यात्। यदेष आकाश आनन्दो न स्यात्। एष ह्येवानन्दयाति सैषानन्दस्य मीमा्ा भवति एतमानन्दमयमात्मानमुपसंक्रामति आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन इति आनन्दो ब्रह्मेति व्यजानात् इति च। श्रुत्यन्तरे च विज्ञानमानन्दं ब्रह्म इति ब्रह्मण्येवानन्दशब्दो दृष्टः। एवमानन्दशब्दस्य बहुकृत्वो ब्रह्मण्यभ्यासादानन्दमय आत्मा ब्रह्मेति गम्यते। यत्तूक्तमन्नमयाद्यमुख्यात्मप्रवाहपतितत्वादानन्दमयस्याप्यमुख्यत्वमिति नासौ दोषः आनन्दमयस्य सर्वान्तरत्वात्। मुख्यमेव ह्यात्मानमुपदिदिक्षु शास्त्रं लोकबुद्धिमनुसरत् अन्नमयं शरीरमनात्मानमत्यन्तमूढानामात्मत्वेन प्रसिद्धमनूद्य मूषानिषिक्तद्रुतताम्रादिप्रतिमावत्ततोऽन्तरं ततोऽन्तरमित्येवं पूर्वेण पूर्वेण समानमुत्तरमुत्तरमनात्मानमात्मेति ग्राहयत् प्रतिपत्तिसौकर्यापेक्षया सर्वान्तरं मुख्यमानन्दमयमात्मानमुपदिदेशेति श्लिष्टतरम्। यथारुन्धतीदर्शने बह्वीष्वपि तारास्वमुख्यास्वरुन्धतीषु दर्शितासु या अन्त्या प्रदर्श्यते सा मुख्यैवारुन्धती भवति एवमिहाप्यानन्दमयस्य सर्वान्तरत्वान्मुख्यमात्मत्वम्। यत्तु ब्रूषे प्रियादीनां शिरस्त्वादिकल्पनानुपपन्ना मुख्यस्यात्मन इति अतीतानन्तरोपाधिजनिता सा न स्वाभाविकीत्यदोषः। शारीरत्वमप्यानन्दमयस्यान्नमयादिशरीरपरम्परया प्रदर्श्यमानत्वात् न पुनः साक्षादेव शारीरत्वं संसारिवत्। तस्मादानन्दमयः पर एवात्मा।।