ब्रह्मसूत्र

ईक्षतेर्नाशब्दम्।।1.1.5।।

ईक्षत्यधिकरणम्।।1.1.5।।

न सांख्यपरिकल्पितमचेतनं प्रधानं जगतः कारणं शक्यं वेदान्तेष्वाश्रयितुम्। अशब्दं हि तत्। कथमशब्दत्वम् ईक्षतेः ईक्षितृत्वश्रवणात्कारणस्य। कथम् एवं हि श्रूयते सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् इत्युपक्रम्य तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत इति। तत्र इदंशब्दवाच्यं नामरूपव्याकृतं जगत् प्रागुत्पत्तेः सदात्मनावधार्य तस्यैव प्रकृतस्य सच्छब्दवाच्यस्येक्षणपूर्वकं तेजःप्रभृतेः स्रष्टृत्वं दर्शयति। तथान्यत्र आत्मा वा इदमेक एवाग्र आसीत्। नान्यत्किंचन मिषत्। स ईक्षत लोकान्नु सृजा इति। स इमा्लोकानसृजत इतीक्षापूर्विकामेव सृष्टिमाचष्टे। क्वचिच्च षोडशकलं पुरुषं प्रस्तुत्याह स ईक्षांचक्रे स प्राणमसृजत इति। ईक्षतेरिति च धात्वर्थनिर्देशोऽभिप्रेतः यजतेरितिवत् न धातुनिर्देशः। तेन यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः। तस्मादेतब्रह्म नाम रूपमन्नं च जायते इत्येवमादीन्यपि सर्वज्ञेश्वरकारणपराणि वाक्यान्युदाहर्तव्यानि।।

यत्तूक्तं सत्त्वधर्मेण ज्ञानेन सर्वज्ञं प्रधानं भविष्यतीति तन्नोपपद्यते। न हि प्रधानावस्थायां गुणसाम्यात्सत्त्वधर्मो ज्ञानं संभवति। ननूक्तं सर्वज्ञानशक्तिमत्त्वेन सर्वज्ञं भविष्यतीति तदपि नोपपद्यते। यदि गुणसाम्ये सति सत्त्वव्यपाश्रयां ज्ञानशक्तिमाश्रित्य सर्वज्ञं प्रधानमुच्येत कामं रजस्तमोव्यपाश्रयामपि ज्ञानप्रतिबन्धकशक्तिमाश्रित्य किंचिज्ज्ञमुच्येत। अपि च नासाक्षिका सत्त्ववृत्तिर्जानातिना अभिधीयते। न चाचेतनस्य प्रधानस्य साक्षित्वमस्ति। तस्मादनुपपन्नं प्रधानस्य सर्वज्ञत्वम्। योगिनां तु चेतनत्वात्सत्त्वोत्कर्षनिमित्तं सर्वज्ञत्वमुपपन्नमित्यनुदाहरणम्। अथ पुनः साक्षिनिमित्तमीक्षितृत्वं प्रधानस्यापि कल्प्येत यथाग्निनिमित्तमयःपिण्डादेर्दग्धृत्वम् तथा सति यन्निमित्तमीक्षितृत्वं प्रधानस्य तदेव सर्वज्ञं ब्रह्म मुख्यं जगतः कारणमिति युक्तम्। यत्पुनरुक्तं ब्रह्मणोऽपि न मुख्यं सर्वज्ञत्वमुपपद्यते नित्यज्ञानक्रियत्वे ज्ञानक्रियां प्रति स्वातन्त्र्यासंभवादिति अत्रोच्यते इदं तावद्भवान्प्रष्टव्यः कथं नित्यज्ञानक्रियत्वे सर्वज्ञत्वहानिरिति। यस्य हि सर्वविषयावभासनक्षमं ज्ञानं नित्यमस्ति सोऽसर्वज्ञ इति विप्रतिषिद्धम्। अनित्यत्वे हि ज्ञानस्य
कदाचिज्जानाति कदाचिन्न जानातीत्यसर्वज्ञत्वमपि स्यात्। नासौ ज्ञाननित्यत्वे दोषोऽस्ति। ज्ञाननित्यत्वे ज्ञानविषयः स्वातन्त्र्यव्यपदेशो नोपपद्यते इति चेत् न प्रततौष्ण्यप्रकाशेऽपि सवितरि दहति प्रकाशयति इति स्वातन्त्र्यव्यपदेशदर्शनात्। ननु सवितुर्दाह्यप्रकाश्यसंयोगे सति दहति प्रकाशयति इति व्यपदेशः स्यात् न तु ब्रह्मणः प्रागुत्पत्तेर्ज्ञानकर्मसंयोगोऽस्तीति विषमो दृष्टान्तः। न असत्यपि कर्मणि सविता प्रकाशते इति कर्तृत्वव्यपदेशदर्शनात् एवमसत्यपि ज्ञानकर्मणि ब्रह्मणः तदैक्षत इति कर्तृत्वव्यपदेशोपपत्तेर्न वैषम्यम्। कर्मापेक्षायां तु ब्रह्मणि ईक्षितृत्वश्रुतयः सुतरामुपपन्नाः। किं पुनस्तत्कर्म यत्प्रागुत्पत्तेरीश्वरज्ञानस्य विषयो भवतीति तत्त्वान्यत्वाभ्यामनिर्वचनीये नामरूपे अव्याकृते व्याचिकीर्षिते इति ब्रूमः। यत्प्रसादाद्धि योगिनामप्यतीतानागतविषयं प्रत्यक्षं ज्ञानमिच्छन्ति योगशास्त्रविदः किमु वक्तव्यं तस्य नित्यसिद्धस्येश्वरस्य सृष्टिस्थितिसंहृतिविषयं नित्यज्ञानं भवतीति। यदप्युक्तं प्रागुत्पत्तेर्ब्रह्मणः शरीरादिसंबन्धमन्तरेणेक्षितृत्वमनुपपन्नमिति न तच्चोद्यमवतरति सवितृप्रकाशवद्ब्रह्मणो ज्ञानस्वरूपनित्यत्वे ज्ञानसाधनापेक्षानुपपत्तेः। अपि चाविद्यादिमतः संसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिः स्यात् न ज्ञानप्रतिबन्धकारणरहितस्येश्वरस्य। मन्त्रौ चेमावीश्वरस्य शरीराद्यनपेक्षतामनावरणज्ञानतां च दर्शयतः न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते। परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च इति। अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स श्रृणोत्यकर्णः। स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् इति च। ननु नास्ति तव ज्ञानप्रतिबन्धकारणरहितेश्वरादन्यः संसारी नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति विज्ञाता इत्यादिश्रुतेः तत्र किमिदमुच्यते संसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिः नेश्वरस्येति अत्रोच्यते सत्यं नेश्वरादन्यः संसारी तथापि देहादिसंघातोपाधिसंबन्ध इष्यत एव घटकरकगिरिगुहाद्युपाधिसंबन्ध इव व्योम्नः तत्कृतश्च शब्दप्रत्ययव्यवहारो लोकस्य दृष्टः घटच्छिद्रम् करकच्छिद्रम् इत्यादिः आकाशाव्यतिरेकेऽपि तत्कृता चाकाशे घटाकाशादिभेदमिथ्याबुद्धिर्दृष्टा तथेहापि देहादिसंघातोपाधिसंबन्धाविवेककृतेश्वरसंसारिभेदमिथ्याबुद्धिः। दृश्यते चात्मन एव सतो देहादिसंघातेऽनात्मन्यात्मत्वाभिनिवेशो मिथ्याबुद्धिमात्रेण पूर्वपूर्वेण। सति चैवं संसारित्वे देहाद्यपेक्षमीक्षितृत्वमुपपन्नं संसारिणः। यदप्युक्तं प्रधानस्यानेकात्मकत्वान्मृदादिवत्कारणत्वोपपत्तिर्नासंहतस्य ब्रह्मण इति तत्प्रधानस्याशब्दत्वेनैव प्रत्युक्तम्। यथा तु तर्केणापि ब्रह्मण एव कारणत्वं निर्वोढुं शक्यते न प्रधानादीनाम् तथा प्रपञ्चयिष्यति न विलक्षणत्वादस्य इत्येवमादिना।।

अत्राह यदुक्तं नाचेतनं प्रधानं जगत्कारणमीक्षितृत्वश्रवणादिति तदन्यथाप्युपपद्यते अचेतनेऽपि चेतनवदुपचारदर्शनात्। यथा प्रत्यासन्नपतनतां नद्याः कूलस्यालक्ष्य कूलं पिपतिषति इत्यचेतनेऽपि कूले चेतनवदुपचारो दृष्टः तद्वदचेतनेऽपि प्रधाने प्रत्यासन्नसर्गे चेतनवदुपचारो भविष्यति तदैक्षत इति। यथा लोके कश्चिच्चेतनः स्नात्वा भुक्त्वा चापराह्णे ग्रामं रथेन गमिष्यामि इतीक्षित्वा अनन्तरं तथैव नियमेन प्रवर्तते तथा प्रधानमपि महदाद्याकारेण नियमेन प्रवर्तते तस्माच्चेतनवदुपचर्यते। कस्मात्पुनः कारणात् विहाय मुख्यमीक्षितृत्वम् औपचारिकं कल्प्यते तत्तेज ऐक्षत ता आप ऐक्षन्त इति चाचेतनयोरप्यप्तेजसोश्चेतनवदुपचारदर्शनात् तस्मात्सत्कर्तृकमपीक्षणमौपचारिकमिति गम्यते उपचारप्राये वचनात् इत्येवं प्राप्ते इदं सूत्रमारभ्यते