ब्रह्मसूत्र

नानुमानमतच्छब्दात्।।1.3.3।।

।।1.3.3।।

यथा ब्रह्मणः प्रतिपादको वैशेषिको हेतुरुक्तः नैवमर्थान्तरस्य वैशेषिको हेतुः प्रतिपादकोऽस्तीत्याह। नानुमानं सांख्यस्मृतिपरिकल्पितं प्रधानम् इह द्युभ्वाद्यायतनत्वेन प्रतिपत्तव्यम्। कस्मात् अतच्छब्दात्। तस्याचेतनस्य प्रधानस्य प्रतिपादकः शब्दः तच्छब्दः न तच्छब्दः अतच्छब्दः। न ह्यत्राचेतनस्य प्रधानस्य प्रतिपादकः कश्चिच्छब्दोऽस्ति येनाचेतनं प्रधानं कारणत्वेनायतनत्वेन वावगम्येत। तद्विपरीतस्य चेतनस्य प्रतिपादकशब्दोऽत्रास्ति यः सर्वज्ञः सर्ववित् इत्यादिः। अत एव न वायुरपीह द्युभ्वाद्यायतनत्वेनाश्रीयते।।