ब्रह्मसूत्र

आकाशोऽर्थान्तरत्वादिव्यपदेशात्।।1.3.41।।

अर्थान्तरत्वादिव्यपदेशाधिकरणम्।।1.3.41।।

आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मा इति श्रूयते। तत्किमाकाशशब्दं परं ब्रह्म किं वा प्रसिद्धमेव भूताकाशमिति विचारे भूतपरिग्रहो युक्तः आकाशशब्दस्य तस्मिन् रूढत्वात् नामरूपनिर्वहणस्य चावकाशदानद्वारेण तस्मिन्योजयितुं शक्यत्वात् स्रष्टृत्वादेश्च स्पष्टस्य ब्रह्मलिङ्गस्याश्रवणादित्येवं प्राप्ते

इदमुच्यते परमेव ब्रह्म इहाकाशशब्दं भवितुमर्हति कस्मात् अर्थान्तरत्वादिव्यपदेशात्। ते यदन्तरा तद्ब्रह्म इति हि नामरूपाभ्यामर्थान्तरभूतमाकाशं व्यपदिशति न च ब्रह्मणोऽन्यन्नामरूपाभ्यामर्थान्तरं संभवति सर्वस्य विकारजातस्य नामरूपाभ्यामेव व्याकृतत्वात् नामरूपयोरपि निर्वहणं निरङ्कुशं न ब्रह्मणोऽन्यत्र संभवति अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि इति ब्रह्मकर्तृकत्वश्रवणात्। ननु जीवस्यापि प्रत्यक्षं नामरूपविषयं निर्वोढृत्वमस्ति बाढमस्ति अभेदस्त्विह विवक्षितः। नामरूपनिर्वहणाभिधानादेव च स्रष्टृत्वादि ब्रह्मलिङ्गमभिहितं भवति। तद्ब्रह्म तदमृतं स आत्मा इति च ब्रह्मवादस्य लिङ्गानि। आकाशस्तल्लिङ्गात् इत्यस्यैवायं प्रपञ्चः।।