ब्रह्मसूत्र

अवस्थितेरिति काशकृत्स्नः।।1.4.22।।

।।1.4.22।।

अस्यैव परमात्मनोऽनेनापि विज्ञानात्मभावेनावस्थानादुपपन्नमिदमभेदेनोपक्रमणमिति काशकृत्स्न आचार्यो मन्यते। तथा च ब्राह्मणम् अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि इत्येवंजातीयकं परस्यैवात्मनो जीवभावेनावस्थानं दर्शयति मन्त्रवर्णश्च सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते इत्येवंजातीयकः। न च तेजःप्रभृतीनां सृष्टौ जीवस्य पृथक्सृष्टिः श्रुता येन परस्मादात्मनोऽन्यस्तद्विकारो जीवः स्यात्। काशकृत्स्नस्याचार्यस्याविकृतः परमेश्वरो जीवः नान्य इति मतम् आश्मरथ्यस्य तु यद्यपि जीवस्य परस्मादनन्यत्वमभिप्रेतम् तथापि प्रतिज्ञासिद्धेः इति सापेक्षत्वाभिधानात्कार्यकारणभावः कियानप्यभिप्रेत इति गम्यते औडुलोमिपक्षे पुनः स्पष्टमेवावस्थान्तरापेक्षौ भेदाभेदौ गम्येते। तत्र काशकृत्स्नीयं मतं श्रुत्यनुसारीति गम्यते प्रतिपिपादयिषितार्थानुसारात् तत्त्वमसि इत्यादिश्रुतिभ्यः एवं च सति तज्ज्ञानादमृतत्वमवकल्पते विकारात्मकत्वे हि जीवस्याभ्युपगम्यमाने विकारस्य प्रकृतिसंबन्धे प्रलयप्रसङ्गान्न तज्ज्ञानादमृतत्वमवकल्पेत। अतश्च स्वाश्रयस्य नामरूपस्यासंभवादुपाध्याश्रयं नामरूपं जीवे उपचर्यते। अत एवोत्पत्तिरपि जीवस्य क्वचिदग्निविस्फुलिङ्गोदाहरणेन श्राव्यमाणा उपाध्याश्रयैव वेदितव्या।।

यदप्युक्तं प्रकृतस्यैव महतो भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञानात्मभावेन दर्शयन्विज्ञानात्मन एवेदं द्रष्टव्यत्वं दर्शयतीति तत्रापीयमेव त्रिसूत्री योजयितव्या। प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः इदमत्र प्रतिज्ञातम् आत्मनि विदिते सर्वमिदं विदितं भवति इदं सर्वं यदयमात्मा इति च उपपादितं च सर्वस्य नामरूपकर्मप्रपञ्चस्यैकप्रसवत्वादेकप्रलयत्वाच्च दुन्दुभ्यादिदृष्टान्तैश्च कार्यकारणयोरव्यतिरेकप्रतिपादनात् तस्या एव प्रतिज्ञायाः सिद्धिं सूचयत्येतल्लिङ्गम् यन्महतो भूतस्य भूतेभ्यः समुत्थानं विज्ञानात्मभावेन कथितम् इत्याश्मरथ्य आचार्यो मन्यते अभेदे हि सत्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञातमवकल्पत इति। उत्क्रमिष्यत एवंभावादित्यौडुलोमिः उत्क्रमिष्यतो विज्ञानात्मनो ज्ञानध्यानादिसामर्थ्यात्संप्रसन्नस्य परेणात्मनैक्यसंभवादिदमभेदाभिधानमित्यौडुलोमिराचार्यो मन्यते। अवस्थितेरिति काशकृत्स्नः अस्यैव परमात्मनोऽनेनापि विज्ञानात्मभावेनावस्थानादुपपन्नमिदमभेदाभिधानमिति काशकृत्स्न आचार्यो मन्यते। ननूच्छेदाभिधानमेतत् एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्ति इति कथमेतदभेदाभिधानम् नैष दोषः विशेषविज्ञानविनाशाभिप्रायमेतद्विनाशाभिधानम् नात्मोच्छेदाभिप्रायम् अत्रैव मा भगवानमूमुहन्न प्रेत्य संज्ञास्ति इति पर्यनुयुज्य स्वयमेव श्रुत्या अर्थान्तरस्य दर्शितत्वात् न वा अरेऽहं मोहं ब्रवीम्यविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा मात्रासंसर्गस्त्वस्य भवति इति। एतदुक्तं भवति कूटस्थनित्य एवायं विज्ञानघन आत्मा नास्योच्छेदप्रसङ्गोऽस्ति मात्राभिस्त्वस्य भूतेन्द्रियलक्षणाभिरविद्याकृताभिरसंसर्गो विद्यया भवति संसर्गाभावे च तत्कृतस्य विशेषविज्ञानस्याभावात् न प्रेत्य संज्ञास्ति इत्युक्तमिति। यदप्युक्तम् विज्ञातारमरे केन विजानीयात् इति कर्तृवचनेन शब्देनोपसंहाराद्विज्ञानात्मन एवेदं द्रष्टव्यमिति तदपि काशकृत्स्नीयेनैव दर्शनेन परिहरणीयम्। अपि च यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति इत्यारभ्याविद्याविषये तस्यैव दर्शनादिलक्षणं विशेषविज्ञानं प्रपञ्च्य यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् इत्यादिना विद्याविषये तस्यैव दर्शनादिलक्षणस्य विशेषविज्ञानस्याभावमभिदधाति पुनश्च विषयाभावेऽप्यात्मानं विजानीयादित्याशङ्क्य विज्ञातारमरे केन विजानीयात् इत्याह ततश्च विशेषविज्ञानाभावोपपादनपरत्वाद्वाक्यस्य विज्ञानधातुरेव केवलः सन्भूतपूर्वगत्या कर्तृवचनेन तृचा निर्दिष्ट इति गम्यते। दर्शितं तु पुरस्तात्काशकृत्स्नीयस्य पक्षस्य श्रुतिमत्त्वम्। अतश्च विज्ञानात्मपरमात्मनोरविद्याप्रत्युपस्थापितनामरूपरचितदेहाद्युपाधिनिमित्तो भेदः न पारमार्थिक इत्येषोऽर्थः सर्वैर्वेदान्तवादिभिरभ्युपगन्तव्यः सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् आत्मैवेदं सर्वम् ब्रह्मैवेदं
सर्वम् इदं सर्वं यदयमात्मा नान्योऽतोऽस्ति द्रष्टा नान्यदतोऽस्ति द्रष्टृ इत्येवंरूपाभ्यः श्रुतिभ्यः स्मृतिभ्यश्च वासुदेवः सर्वमिति क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् इत्येवंरूपाभ्यः भेददर्शनापवादाच्च अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुः मृत्योः
स मृत्युमाप्नोति य इह नानेव पश्यति इत्येवंजातीयकात् स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्म इति च आत्मनि सर्वविक्रियाप्रतिषेधात् अन्यथा च मुमुक्षूणां निरपवादविज्ञानानुपपत्तेः सुनिश्चितार्थत्वानुपपत्तेश्च निरपवादं हि विज्ञानं सर्वाकाङ्क्षानिवर्तकमात्मविषयमिष्यते वेदान्तविज्ञानसुनिश्चितार्थाः इति च श्रुतेः तत्र को मोहः कः शोक एकत्वमनुपश्यतः इति च स्थितप्रज्ञलक्षणस्मृतेश्च। स्थिते च क्षेत्रज्ञपरमात्मैकत्वविषये सम्यग्दर्शने क्षेत्रज्ञः परमात्मेति नाममात्रभेदात्क्षेत्रज्ञोऽयं परमात्मनो भिन्नः परमात्मायं क्षेत्रज्ञाद्भिन्न इत्येवंजातीयक आत्मभेदविषयोऽयं निर्बन्धो निरर्थकः एको ह्ययमात्मा नाममात्रभेदेन बहुधाभिधीयत इति। न हि सत्यं ज्ञानमनन्तं ब्रह्म। यो वेद निहितं गुहायाम् इति कांचिदेवैकां गुहामधिकृत्यैतदुक्तम् न च ब्रह्मणोऽन्यो गुहायां निहितोऽस्ति तत्सृष्ट्वा तदेवानुप्राविशत् इति स्रष्टुरेव प्रवेशश्रवणात्। ये तु निर्बन्धं कुर्वन्ति ते वेदान्तार्थं बाधमानाः श्रेयोद्धारं सम्यग्दर्शनमेव बाधन्ते कृतकमनित्यं च मोक्षं कल्पयन्ति न्यायेन च न संगच्छन्त इति।।