ब्रह्मसूत्र

आत्मकृतेः परिणामात्।।1.4.26।।

।।1.4.26।।

इतश्च प्रकृतिर्ब्रह्म यत्कारणं ब्रह्मप्रक्रियायाम् तदात्मानं स्वयमकुरुत इत्यात्मनः कर्मत्वं कर्तृत्वं च दर्शयति आत्मानमिति कर्मत्वम् स्वयमकुरुतेति कर्तृत्वम् कथं पुनः पूर्वसिद्धस्य सतः कर्तृत्वेन व्यवस्थितस्य क्रियमाणत्वं शक्यं संपादयितुम् परिणामादिति ब्रूमः पूर्वसिद्धोऽपि हि सन्नात्मा विशेषेण विकारात्मना परिणमयामासात्मानमिति। विकारात्मना च परिणामो मृदाद्यासु प्रकृतिषूपलब्धः स्वयमिति च विशेषणान्निमित्तान्तरानपेक्षत्वमपि प्रतीयते परिणामात् इति वा पृथक्सूत्रम्। तस्यैषोऽर्थः इतश्च प्रकृतिर्ब्रह्म यत्कारणं ब्रह्मण एव विकारात्मना च परिणामः सामानाधिकरण्येनाम्नायते सच्च त्यच्चाभवन्निरुक्तं चानिरुक्तं च इत्यादिनेति।।