ब्रह्मसूत्र

तदधीनत्वादर्थवत्।।1.4.3।।

।।1.4.3।।

अत्राह यदि जगदिदमनभिव्यक्तनामरूपं बीजात्मकं प्रागवस्थमव्यक्तशब्दार्हमभ्युपगम्येत तदात्मना च शरीरस्याप्यव्यक्तशब्दार्हत्वं प्रतिज्ञायेत स एव तर्हि प्रधानकारणवाद एवं सत्यापद्येत अस्यैव जगतः प्रागवस्थायाः प्रधानत्वेनाभ्युपगमादिति। अत्रोच्यते यदि वयं स्वतन्त्रां कांचित्प्रागवस्थां जगतः कारणत्वेनाभ्युपगच्छेम प्रसञ्जयेम तदा प्रधानकारणवादम् परमेश्वराधीना त्वियमस्माभिः प्रागवस्था जगतोऽभ्युपगम्यते न स्वतन्त्रा सा चावश्याभ्युपगन्तव्या अर्थवती हि सा न हि तया विना परमेश्वरस्य स्रष्टृत्वं सिध्यति शक्तिरहितस्य तस्य प्रवृत्त्यनुपपत्तेः मुक्तानां च पुनरनुत्पत्तिः कुतः विद्यया तस्या बीजशक्तेर्दाहात् अविद्यात्मिका हि सा बीजशक्तिरव्यक्तशब्दनिर्देश्या परमेश्वराश्रया मायामयी महासुषुप्तिः यस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवाः तदेतदव्यक्तं क्वचिदाकाशशब्दनिर्दिष्टम् एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च इति श्रुतेः क्वचिदक्षरशब्दोदितम् अक्षरात्परतः परः इति श्रुतेः क्वचिन्मायेति सूचितम् मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् इति मन्त्रवर्णात् अव्यक्ता हि सा माया तत्त्वान्यत्वनिरूपणस्याशक्यत्वात् तदिदं महतः परमव्यक्तमित्युक्तम् अव्यक्तप्रभवत्वान्महतः यदा हैरण्यगर्भी बुद्धिर्महान् यदा तु जीवो महान् तदाप्यव्यक्ताधीनत्वाज्जीवभावस्य महतः परमव्यक्तमित्युक्तम् अविद्या ह्यव्यक्तम् अविद्यावत्त्वेनैव जीवस्य सर्वः संव्यवहारः संततो वर्तते तच्च अव्यक्तगतं महतः परत्वमभेदोपचारात्तद्विकारे शरीरे परिकल्प्यते सत्यपि शरीरवदिन्द्रियादीनां तद्विकारत्वाविशेषे शरीरस्यैवाभेदोपचारादव्यक्तशब्देन ग्रहणम् इन्द्रियादीनां स्वशब्दैरेव गृहीतत्वात् परिशिष्टत्वाच्च शरीरस्य।।

अन्ये तु वर्णयन्ति द्विविधं हि शरीरं स्थूलं सूक्ष्मं च स्थूलम् यदिदमुपलभ्यते सूक्ष्मम् यदुत्तरत्र वक्ष्यते तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् इति तच्चोभयमपि शरीरमविशेषात्पूर्वत्र रथत्वेन संकीर्तितम् इह तु सूक्ष्ममव्यक्तशब्देन परिगृह्यते सूक्ष्मस्याव्यक्तशब्दार्हत्वात् तदधीनत्वाच्च बन्धमोक्षव्यवहारस्य
जीवात्तस्य परत्वम् यथार्थाधीनत्वादिन्द्रियव्यापारस्येन्द्रियेभ्यः परत्वमर्थानामिति। तैस्त्वेतद्वक्तव्यम् अविशेषेण शरीरद्वयस्य पूर्वत्र रथत्वेन संकीर्तितत्वात् समानयोः प्रकृतत्वपरिशिष्टत्वयोः कथं सूक्ष्ममेव शरीरमिह गृह्यते न पुनः स्थूलमपीति। आम्नातस्यार्थं प्रतिपत्तुं प्रभवामः नाम्नातं पर्यनुयोक्तुम् आम्नातं चाव्यक्तपदं सूक्ष्ममेव प्रतिपादयितुं शक्नोति नेतरत् व्यक्तत्वात्तस्येति चेत् न एकवाक्यताधीनत्वादर्थंप्रतिपत्तेः न हीमे पूर्वोत्तरे आम्नाते एकवाक्यतामनापद्य कंचिदर्थं प्रतिपादयतः प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गात् न चाकाङ्क्षामन्तरेणैकवाक्यताप्रतिपत्तिरस्ति तत्राविशिष्टायां शरीरद्वयस्य ग्राह्यत्वाकाङ्क्षायां यथाकाङ्क्षं संबन्धेऽनभ्युपगम्यमाने एकवाक्यतैव बाधिता भवति कुत आम्नातस्यार्थस्य प्रतिपत्तिः न चैवं मन्तव्यम् दुःशोधत्वात्सूक्ष्मस्यैव शरीरस्येह ग्रहणम् स्थूलस्य तु दृष्टबीभत्सतया सुशोधत्वादग्रहणमिति यतो नैवेह शोधनं कस्यचिद्विवक्ष्यते न ह्यत्र शोधनविधायि किंचिदाख्यातमस्ति अनन्तरनिर्दिष्टत्वात्तु किं तद्विष्णोः परमं पदमितीदमिह विवक्ष्यते तथाहीदमस्मात्परमिदमस्मात्परमित्युक्त्वा पुरुषान्न परं किंचित् इत्याह सर्वथापि त्वानुमानिकनिराकरणोपपत्तेः तथा नामास्तु न नः किंचिच्छिद्यते।।