ब्रह्मसूत्र

ज्ञेयत्वावचनाच्च।।1.4.4।।

।।1.4.4।।

ज्ञेयत्वेन च सांख्यैः प्रधानं स्मर्यते गुणपुरुषान्तरज्ञानात्कैवल्यमिति वदद्भिः न हि गुणस्वरूपमज्ञात्वा गुणेभ्यः पुरुषस्यान्तरं शक्यं ज्ञातुमिति क्वचिच्च विभूतिविशेषप्राप्तये प्रधानं ज्ञेयमिति स्मरन्ति न चेदमिहाव्यक्तं ज्ञेयत्वेनोच्यते पदमात्रं ह्यव्यक्तशब्दः नेहाव्यक्तं ज्ञातव्यमुपासितव्यं चेति वाक्यमस्ति न चानुपदिष्टं पदार्थज्ञानं पुरुषार्थमिति शक्यं प्रतिपत्तुम् तस्मादपि नाव्यक्तशब्देन प्रधानमभिधीयते अस्माकं तु रथरूपकक्लृप्तशरीराद्यनुसरणेन विष्णोरेव परमं पदं दर्शयितुमयमुपन्यास इत्यनवद्यम्।।