ब्रह्मसूत्र

Introduction for Chapter 2, Quarter 4


।।ब्रह्मसूत्रभाष्यम्।।

।।द्वितीयोऽध्यायः।।
।।चतुर्थः पादः।।

वियदादिविषयश्रुतिविप्रतिषेधंस्तृतीयेन पादेन परिहृतः चतुर्थेन इदानीं प्राणविषयः परिह्रियते। तत्र तावत् तत्तेजोऽसृजत इति तस्माद्वा एतस्मादात्मन आकाशः संभूतः इति च एवमादिषु उत्पत्तिप्रकरणेषु प्राणानामुत्पत्तिर्न आम्नायते क्वचिच्चानुत्पत्तिरेव एषामाम्नायते असद्वा इदमग्र आसीत् तदाहुः किं तदसदासीदित्यृषयो वाव तेऽग्रेऽसदासीत्। तदाहुः के ते ऋषय इति। प्राणा वाव ऋषयः इत्यत्र प्रागुत्पत्तेः प्राणानां सद्भावश्रवणात् अन्यत्र तु प्राणानामप्युत्पत्तिः पठ्यते यथाग्नेर्ज्वलतः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवैतस्मादात्मनः सर्वे प्राणाः इति एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च इति सप्त प्राणाः प्रभवन्ति तस्मात् इति स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नम् इति च एवमादिप्रदेशेषु। तत्र श्रुतिविप्रतिषेधादन्यतरनिर्धारणकारणानिरूपणाच्च अप्रतिपत्तिः प्राप्नोति। अथवा प्रागुत्पत्तेः सद्भावश्रवणाद्गौणी प्राणानामुत्पत्तिश्रुतिरिति प्राप्नोति। अत इदमुत्तरं पठति