ब्रह्मसूत्र

वैलक्षण्याच्च।।2.4.19।।

।।2.4.19।।

वैलक्षण्यं च भवति मुख्यस्य इतरेषां च सुप्तेषु वागादिषु मुख्य एको जागर्ति स एव च एको मृत्युना अनाप्तः आप्तास्त्वितरे तस्यैव च स्थित्युत्क्रान्तिभ्यां देहधारणपतनहेतुत्वम् न इन्द्रियाणाम् विषयालोचनहेतुत्वं च इन्द्रियाणाम् न प्राणस्य इत्येवंजातीयको भूया्लक्षणभेदः प्राणेन्द्रियाणाम् तस्मादप्येषां तत्त्वान्तरभावसिद्धिः। यदुक्तम् त एतस्यैव सर्वे रूपमभवन् इति श्रुतेः प्राण एवेन्द्रियाणीति तदयुक्तम् तत्रापि पौर्वापर्यालोचनाद्भेदप्रतीतेः तथा हि वदिष्याम्येवाहमिति वाग्दध्रे इति वागादीनीन्द्रियाण्यनुक्रम्य तानि मृत्युः श्रमो भूत्वोपयेमे तस्माच्छ्राम्यत्येव वाक् इति च श्रमरूपेण मृत्युना ग्रस्तत्वं वागादीनामभिधाय अथेममेव नाप्नोद्योऽयं मध्यमः प्राणः इति पृथक् प्राणं मृत्युना अनभिभूतं तमनुक्रामति अयं वै नः श्रेष्ठः इति च श्रेष्ठतामस्यावधारयति तस्मात् तदविरोधेन वागादिषु परिस्पन्दलाभस्य प्राणायत्तत्वम् तद्रूपभवनं वागादीनाम् इति मन्तव्यम् न तु तादात्म्यम्। अत एव च प्राणशब्दस्येन्द्रियेषु लाक्षणिकत्वसिद्धिः तथा च श्रुतिः त एतस्यैव सर्वे रूपमभवन्। तस्मादेत एतेनाख्यायन्ते प्राणाः इति मुख्यप्राणविषयस्यैव प्राणशब्दस्येन्द्रियेषु लाक्षणिकीं वृत्तिं दर्शयति। तस्मात्तत्त्वान्तराणि प्राणात् वागादीनि इन्द्रियाणीति।।