ब्रह्मसूत्र

गौण्यसम्भवात्।।2.4.2।।

।।2.4.2।।

यत्पुनरुक्तं प्रागुत्पत्तेः सद्भावश्रवणाद्गौणी प्राणानामुत्पत्तिश्रुतिरिति तत्प्रत्याह गौण्यसंभवादिति गौण्या असंभवो गौण्यसंभवः न हि प्राणानामुत्पत्तिश्रुतिर्गौणी संभवति प्रतिज्ञाहानिप्रसङ्गात् कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति इति हि एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय तत्साधनायेदमाम्नायते एतस्माज्जायते प्राणः इत्यादि सा च प्रतिज्ञा प्राणादेः समस्तस्य जगतो ब्रह्मविकारत्वे सति प्रकृतिव्यतिरेकेण विकाराभावात्सिध्यति गौण्यां तु प्राणानामुत्पत्तिश्रुतौ प्रतिज्ञा इयं हीयेत। तथा च प्रतिज्ञातार्थमुपसंहरति पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् इति ब्रह्मैवेदं विश्वमिदं वरिष्ठम् इति च तथा आत्मनो वा
अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम् इत्येवंजातीयकासु श्रुतिषु एषैव प्रतिज्ञा योजयितव्या। कथं पुनः प्रागुत्पत्तेः प्राणानां सद्भावश्रवणम् नैतन्मूलप्रकृतिविषयम् अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः
परः इति मूलप्रकृतेः प्राणादिसमस्तविशेषरहितत्वावधारणात् अवान्तरप्रकृतिविषयं त्वेतत् स्वविकारापेक्षं प्रागुत्पत्तेः प्राणानां सद्भावावधारणमिति द्रष्टव्यम् व्याकृतविषयाणामपि भूयसीनामवस्थानां श्रुतिस्मृत्योः प्रकृतिविकारभावप्रसिद्धेः। वियदधिकरणे हि गौण्यसंभवात् इति पूर्वपक्षसूत्रत्वात् गौणीजन्मश्रुतिः असंभवात् इति व्याख्यातम् प्रतिज्ञाहान्या च तत्र सिद्धान्तोऽभिहितः इह तु सिद्धान्तसूत्रत्वात् गौण्या जन्मश्रुतेरसंभवात् इति व्याख्यातम् तदनुरोधेन तु इहापि गौणी जन्मश्रुतिः असंभवात् इति व्याचक्षाणैः प्रतिज्ञाहानिरुपेक्षिता स्यात्।।