ब्रह्मसूत्र

रेतःसिग्योगोऽथ।।3.1.26।।

।।3.1.26।।

इतश्च व्रीह्यादिसंश्लेषमात्रं तद्भावः यत्कारणं व्रीह्यादिभावस्यानन्तरमनुशयिनां रेतःसिग्भाव आम्नायते यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति इति न चात्र मुख्यो रेतःसिग्भावः संभवति चिरजातो हि प्राप्तयौवनो रेतःसिग्भवति कथमिव अनुपचरितं तद्भावम् अद्यमानान्नानुगतोऽनुशयी प्रतिपद्यते तत्र तावदवश्यं रेतःसिग्योग एव रेतःसिग्भावोऽभ्युपगन्तव्यः तद्वत् व्रीह्यादिभावोऽपि व्रीह्यादियोग एवेत्यविरोधः।।