ब्रह्मसूत्र

Introduction for Chapter 3, Quarter 2


।।ब्रह्मसूत्रभाष्यम्।।

।।तृतीयोऽध्यायः।।
।।द्वितीयः पादः।।

अतिक्रान्ते पादे पञ्चाग्निविद्यामुदाहृत्य जीवस्य संसारगतिप्रभेदः प्रपञ्चितः इदानीं तस्यैवावस्थाभेदः प्रपञ्च्यते। इदमामनन्ति स यत्र प्रस्वपिति इत्युपक्रम्यन तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयोगान्पथः सृजते इत्यादि। तत्र संशयः किं प्रबोधे इव स्वप्नेऽपि पारमार्थिकी सृष्टिः आहोस्विन्मायामयीति। तत्र तावत्प्रतिपद्यते