ब्रह्मसूत्र

धर्मं जैमिनिरत एव।।3.2.40।।

।।3.2.40।।

जैमिनिस्त्वाचार्यो धर्मं फलस्य दातारं मन्यते अत एव हेतोः श्रुतेः उपपत्तेश्च। श्रूयते तावदयमर्थःस्वर्गकामो यजेत इत्येवमादिषु वाक्येषु तत्र च विधिश्रुतेर्विषयभावोपगमात् यागः स्वर्गस्योत्पादक इति गम्यते अन्यथा हि अननुष्ठातृको याग आपद्येत तत्र अस्य उपदेशवैयर्थ्यं स्यात्। ननु अनुक्षणविनाशिनः कर्मणः फलं नोपपद्यत इति परित्यक्तोऽयं पक्षः नैष दोषः श्रुतिप्रामाण्यात् श्रुतिश्चेत् प्रमाणम् यथायं कर्मफलसंबन्धः श्रुत उपपद्यते तथा कल्पयितव्यः न च अनुत्पाद्य किमप्यपूर्वं कर्म विनश्यत् कालान्तरितं फलं दातुं शक्नोति अतः कर्मणो वा सूक्ष्मा काचिदुत्तरावस्था फलस्य वा पूर्वावस्था अपूर्वं नाम अस्तीति तर्क्यते। उपपद्यते च अयमर्थं उक्तेन प्रकारेण। ईश्वरस्तु फलं ददातीत्यनुपपन्नम् अविचित्रस्य कारणस्य विचित्रकार्यानुपपत्तेः वैषम्यनैर्घृण्यप्रसङ्गात् तदनुष्ठानवैयर्थ्यापत्तेश्च। तस्मात् धर्मादेव फलमिति।।