ब्रह्मसूत्र

भेदान्नेति चेन्नैकस्यामपि।।3.3.2।।

।।3.3.2।।

स्यादेतत् सर्ववेदान्तप्रत्ययत्वं विज्ञानानां गुणभेदात् नोपपद्यते तथा हि वाजसनेयिनः पञ्चाग्निविद्यां प्रस्तुत्य षष्ठमपरमग्निमामनन्ति तस्याग्निरेवाग्निर्भवति इत्यादिना छन्दोगास्तु तं न आमनन्ति पञ्चसंख्ययैव च ते उपसंहरन्ति अथ ह य एतानेवं पञ्चाग्नीन्वेद इति येषां च स गुणोऽस्ति येषां च
नास्ति कथमुभयेषामेका विद्योपपद्येत न च अत्र गुणोपसंहारः शक्यते प्रत्येतुम् पञ्चसंख्याविरोधात्। तथा प्राणसंवादे श्रेष्ठात् अन्यान् चतुरः प्राणान् वाक्चक्षुःश्रोत्रमनांसि छन्दोगा आमनन्ति वाजसनेयिनस्तु पञ्चममप्यामनन्ति रेतो वै प्रजापतिः प्रजायते ह प्रजया पशुभिर्य एवं वेद इति आवापोद्वापभेदाच्च वेद्यभेदो भवति वेद्यभेदाच्च विद्याभेदः द्रव्यदेवताभेदादिवयागस्येति चेत् नैष दोषः यत एकस्यामपि विद्यायामेवंजातीयको गुणभेद उपपद्यते यद्यपि षष्ठस्याग्नेरुपसंहारो न संभवति तथापि द्युप्रभृतीनां पञ्चानामग्नीनाम् उभयत्र प्रत्यभिज्ञायमानत्वात् न विद्याभेदो भवितुमर्हति न हि षोडशिग्रहणाग्रहणयोरतिरात्रो भिद्यते। पठ्यतेऽपि च षष्ठोऽग्निः छन्दोगैः तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति इति वाजसनेयिनस्तु सांपादिकेषु पञ्चस्वग्निषु अनुवृत्तायाः समिद्धूमादिकल्पनाया निवृत्तयेतस्याग्निरेवाग्निर्भवति समित्समित् इत्यादि समामनन्ति स नित्यानुवादः अथाप्युपासनार्थ एष वादः तथापि स गुणः शक्यते छन्दोगैरप्युपसंहर्तुम्। न च अत्र पञ्चसंख्याविरोध आशङ्क्यः सांपादिकाग्न्यभिप्राया हि एषा पञ्चसंख्या नित्यानुवादभूता न विधिसमवायिनी इत्यदोषः। एवं प्राणसंवादादिष्वपि अधिकस्य गुणस्य इतरत्रोपसंहारो न विरुध्यते। न च आवापोद्वापभेदाद्वेद्यभेदो विद्याभेदश्च आशङ्क्यः कस्यचिद्वेद्यांशस्य आवापोद्वापयोरपि भूयसो वेद्यराशेरभेदावगमात्। तस्मादैकविद्यमेव।।