ब्रह्मसूत्र

अनाविष्कुर्वन्नन्वयात्।।3.4.50।।

अनाविष्काराधिकरणम्।।3.4.50।।

तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् इति बाल्यमनुष्ठेयतया श्रूयते तत्र बालस्य भावः कर्म वा बाल्यमिति तद्धिते सति बालभावस्य वयोविशेषस्य इच्छया संपादयितुमशक्यत्वात् यथोपपादमूत्रपुरीषत्वादि बालचरितम् अन्तर्गता वा भावविशुद्धिः अप्ररूढेन्द्रियत्वं दम्भादिरहितत्वं वा बाल्यं स्यादिति संशयः। किं तावत्प्राप्तम् कामचारवादभक्षता यथोपपादमूत्रपुरीषत्वं च प्रसिद्धतरं लोके बाल्यमिति तद्ग्रहणं युक्तम्। ननु पतितत्वादिदोषप्राप्तेर्न युक्तं कामचारताद्याश्रयणम् न विद्यावतः संन्यासिनो वचनसामर्थ्यात् दोषनिवृत्तिः पशुहिंसादिष्विवेत्येवं प्राप्ते

अभिधीयते न वचनस्य गत्यन्तरसंभवात् अविरुद्धे हि अन्यस्मिन् बाल्यशब्दाभिलप्ये लभ्यमाने न विध्यन्तरव्याघातकल्पना युक्ता प्रधानोपकाराय च अङ्गं विधीयते ज्ञानाभ्यासश्च प्रधानमिह यतीनामनुष्ठेयम् न च सकलायां बालचर्यायामङ्गीक्रियमाणायां ज्ञानाभ्यासः संभाव्यते तस्मात् आन्तरो भावविशेषो बालस्य अप्ररूढेन्द्रियत्वादिः इह बाल्यमाश्रीयते तदाह अनाविष्कुर्वन्निति। ज्ञानाध्ययनधार्मिकत्वादिभिः आत्मानमविख्यापयन् दम्भदर्पादिरहितो भवेत् यथा बालः अप्ररूढेन्द्रियतया न परेषाम् आत्मानमाविष्कर्तुमीहते तद्वत्। एवं हि अस्य वाक्यस्य प्रधानोपकार्यर्थानुगम उपपद्यते तथा च उक्तं स्मृतिकारैः यं न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम्। न सुवृत्तं न दुर्वृत्तं वेद कश्चित्स ब्राह्मणः।। गूढधर्माश्रितो विद्वानज्ञातचरितं चरेत्। अन्धवज्जडवच्चापि मूकवच्च महीं चरेत् अव्यक्तलिङ्गोऽव्यक्ताचारः इति चैवमादि।।