ब्रह्मसूत्र

न प्रतीके न हि सः।।4.1.4।।

प्रतीकाधिकरणम्।।4.1.4।।

मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेति तथा आदित्यो ब्रह्मेत्यादेशः स यो नाम ब्रह्मेत्युपास्ते इत्येवमादिषु प्रतीकोपासनेषु संशयः किं तेष्वपि आत्मग्रहः कर्तव्यः न वेति। किं तावत्प्राप्तम् तेष्वपि आत्मग्रह एव युक्तः कर्तुम् कस्मात् ब्रह्मणः श्रुतिषु आत्मत्वेन प्रसिद्धत्वात् प्रतीकानामपि ब्रह्मविकारत्वाद्ब्रह्मत्वे सति आत्मत्वोपपत्तेरित्येवं प्राप्ते ब्रूमः न प्रतीकेष्वात्ममतिं बध्नीयात् न हि स उपासकः प्रतीकानि व्यस्तानि आत्मत्वेन आकलयेत्। यत्पुनः ब्रह्मविकारत्वात्प्रतीकानां ब्रह्मत्वं ततश्च आत्मत्वमिति तदसत् प्रतीकाभावप्रसङ्गात् विकारस्वरूपोपमर्देन हि नामादिजातस्य ब्रह्मत्वमेव आश्रितं भवति स्वरूपोपमर्दे च नामादीनां कुतः प्रतीकत्वम् आत्मग्रहो वा न च ब्रह्मण आत्मत्वात् ब्रह्मदृष्ट्युपदेशेष्वात्मदृष्टिः कल्प्या कर्तृत्वाद्यनिराकरणात् कर्तृत्वादिसर्वसंसारधर्मनिराकरणेन हि ब्रह्मण
आत्मत्वोपदेशः तदनिराकरणेन च उपासनविधानम्। अतश्च उपासकस्य प्रतीकैः समत्वात् आत्मग्रहो नोपपद्यते न हि रुचकस्वस्तिकयोः इतरेतरात्मत्वमस्ति सुवर्णात्मनेव तु ब्रह्मात्मना एकत्वे प्रतीकाभावप्रसङ्गमवोचाम। अतो न प्रतीकेष्वात्मदृष्टिः क्रियते।।