ब्रह्मसूत्र

वायुमब्दादविशेषविशेषाभ्याम्।।4.3.2।।

वाय्वधिकरणम्।।4.3.2।।

केन पुनः संनिवेशविशेषेण गतिविशेषणानाम् इतरेतरविशेषणविशेष्यभावः इति तदेतत् सुहृद्भूत्वा आचार्यो ग्रथयति। स एतं देवयानं पन्थानमासाद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकम् इति कौषीतकिनां देवयानः पन्थाः पठ्यते तत्र अर्चिरग्निलोकशब्दौ तावत् एकार्थौ ज्वलनवचनत्वादिति नात्र संनिवेशक्रमः कश्चिदन्वेष्यः वायुस्तु अर्चिरादौ वर्त्मनि कतमस्मिन्स्थाने निवेशयितव्य इति उच्यते तेऽर्चिषमेवाभिसंभवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासांस्तान्मासेभ्यः संवत्सरं संवत्सरादादित्यम् इत्यत्र संवत्सरात्पराञ्चम् आदित्यादर्वाञ्चं वायुमभिसंभवन्ति कस्मात् अविशेषविशेषाभ्याम्। तथा हि स वायुलोकम् इत्यत्र अविशेषोपदिष्टस्य वायोः श्रुत्यन्तरेण विशेषोपदेशो दृश्यते यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा
रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति इति एतस्मात् आदित्यात् वायोः पूर्वत्वदर्शनात् विशेषात् अब्दादित्ययोरन्तराले वायुर्निवेशयितव्यः। कस्मात्पुनरग्नेः परत्वदर्शनाद्विशेषादर्चिषोऽनन्तरं वायुर्न निवेश्यते नैषोऽस्ति विशेष इति वदामः ननूदाहृता श्रुतिः स एतं देवयानं पन्थानमासाद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकम् इति उच्यते केवलोऽत्र पाठः पौर्वापर्येणावस्थितः नात्र क्रमवचनः कश्चिच्छब्दोऽस्ति पदार्थोपदर्शनमात्रं ह्यत्र क्रियते एतं एतं च आगच्छतीति इतरत्र पुनः वायुप्रत्तेन रथचक्रमात्रेण च्छिद्रेण ऊर्ध्वमाक्रम्य आदित्यमागच्छतीति अवगम्यते क्रमः तस्मात् सूक्तम् अविशेषविशेषाभ्यामिति। वाजसनेयिनस्तु मासेभ्यो देवलोकं देवलोकादादित्यम् इति समामनन्ति तत्र आदित्यानन्तर्याय देवलोकाद्वायुमभिसंभवेयुः वायुमब्दात् इति तु च्छन्दोगश्रुत्यपेक्षयोक्तम्। छान्दोग्यवाजसनेयकयोस्तु एकत्र देवलोको न विद्यते परत्र संवत्सरः तत्र श्रुतिद्वयप्रत्ययात् उभावपि उभयत्र ग्रथयितव्यौ तत्रापि माससंबन्धात्संवत्सरः पूर्वः पश्चिमो देवलोक इति विवेक्तव्यम्।।