ब्रह्मसूत्र

उभयव्यामोहात्तत्सिद्धेः।।4.3.5।।

।।4.3.5।।

ये तावदर्चिरादिमार्गगाः ते देहवियोगात् संपिण्डितकरणग्रामा इति अस्वतन्त्राः अर्चिरादीनामप्यचेतनत्वादस्वातन्त्र्यम् इत्यतः अर्चिराद्यभिमानिनश्चेतना देवताविशेषा अतियात्रायां नियुक्ता इति गम्यते लोकेऽपि हि मत्तमूर्छितादयः संपिण्डितकरणाः परप्रयुक्तवर्त्मानो भवन्ति। अनवस्थितत्वादप्यर्चिरादीनां न मार्गलक्षणत्वोपपत्तिः न हि रात्रौ प्रेतस्य अहःस्वरूपाभिसंभव उपपद्यते न च प्रतिपालनमस्तीत्युक्तं पुरस्तात् ध्रुवत्वात्तु देवतात्मनां नायं दोषो भवति। अर्चिरादिशब्दता च एषाम् अर्चिराद्यभिमानादुपपद्यते अर्चिषोऽहः इत्यादिनिर्देशस्तु आतिवाहिकत्वेऽपि न विरुध्यते अर्चिषा हेतुना अहरभिसंभवति अह्ना हेतुना
आपूर्यमाणपक्षमिति तथा च लोके प्रसिद्धेष्वप्यातिवाहिकेषु एवंजातीयक उपदेशो दृश्यते गच्छ त्वम् इतो बलवर्माणं ततो जयसिंहं ततः कृष्णगुप्तमिति। अपि च उपक्रमे तेऽर्चिरभिसंभवन्ति इति संबन्धमात्रमुक्तम् न संबन्धविशेषः कश्चित् उपसंहारे तु स एतान्ब्रह्म गमयति इति संबन्धविशेषः अतिवाह्यातिवाहकत्वलक्षण उक्तः तेन स एवोपक्रमेऽपीति निर्धार्यते। संपिण्डितकरणत्वादेव च गन्तृ़णां न तत्र भोगसंभवः लोकशब्दस्तु अनुपभुञ्जानेष्वपि गन्तृषु गमयितुं शक्यते अन्येषां तल्लोकवासिनां भोगभूमित्वात्। अतः अग्निस्वामिकं लोकं प्राप्तः अग्निना अतिवाह्यते वायुस्वामिकं प्राप्तो वायुना इति योजयितव्यम्।।

कथं पुनरातिवाहिकत्वपक्षे वरुणादिषु तत्संभवः विद्युतो ह्यधि वरुणादय उपक्षिप्ताः विद्युतस्त्वनन्तरम् आ ब्रह्मप्राप्तेः अमानवस्यैव पुरुषस्य गमयितृत्वं श्रुतम् इत्यत उत्तरं पठति