ब्रह्मसूत्र

प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः।।4.4.18।।

।।4.4.18।।

अथ यदुक्तम् आप्नोति स्वाराज्यम् इत्यादिप्रत्यक्षोपदेशात् निरवग्रहमैश्वर्यं विदुषां न्याय्यमिति
तत्परिहर्तव्यम् अत्रोच्यते नायं दोषः आधिकारिकमण्डलस्थोक्तेः। आधिकारिको यः सवितृमण्डलादिषु विशेषायतनेष्ववस्थितः पर ईश्वरः तदायत्तैव इयं स्वाराज्यप्राप्तिरुच्यते यत्कारणम् अनन्तरम् आप्नोति मनसस्पतिम् इत्याह यो हि सर्वमनसां पतिः पूर्वसिद्ध ईश्वरः तं प्राप्नोतीत्येतदुक्तं भवति तदनुसारेणैव च अनन्तरम् वाक्पतिश्चक्षुष्पतिः। श्रोत्रपतिर्विज्ञानपतिः च भवति इत्याह। एवमन्यत्रापि यथासंभवं नित्यसिद्धेश्वरायत्तमेव इतरेषामैश्वर्यं योजयितव्यम्।।