ब्रह्मसूत्र

ब्राह्मेण जैमिनिरुपन्यासादिभ्यः।।4.4.5।।

ब्राह्माधिकरणम्।।4.4.5।।

स्थितमेतत् स्वेन रूपेण इत्यत्र आत्ममात्ररूपेणाभिनिष्पद्यते न आगन्तुकेनापररूपेणेति। अधुना तु तद्विशेषबुभुत्सायामभिधीयते स्वम् अस्य रूपं ब्राह्मम् अपहतपाप्मत्वादिसत्यसंकल्पत्वावसानं तथा सर्वज्ञत्वं सर्वेश्वरत्वं च तेन स्वरूपेणाभिनिष्पद्यत इति जैमिनिराचार्यो मन्यते कुतः उपन्यासादिभ्यस्तथात्वावगमात् तथा हि य आत्मापहतपाप्मा इत्यादिना सत्यकामः सत्यसंकल्पः इत्येवमन्तेन उपन्यासेन एवमात्मकतामात्मनो बोधयति तथा स तत्र पर्येति जक्षत्क्रीडन्रममाणः इति ऐश्वर्यरूपमावेदयति तस्य सर्वेषु लोकेषु कामचारो भवति इति च सर्वज्ञः सर्वेश्वरः इत्यादिव्यपदेशाश्च एवमुपपन्ना भविष्यन्तीति।।