UDDHAVA GITA

UDDHAVA GITA


यथा हि भानोरुदयो नृचक्षुषां

तमो निहन्यान्न तु सद्विधत्ते।

एवं समीक्षा निपुणा सती मे

हन्यात्तमिस्रं पुरुषस्य बुद्धेः।।34।।