अर्जुन उवाच
किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम।
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते।।8.1।।
श्रीमद् भगवद्गीता
।।8.1 -- 8.2।। अर्जुन बोले -- हे पुरुषोत्तम ! वह ब्रह्म क्या है? अध्यात्म क्या है? कर्म क्या है? अधिभूत किसको कहा गया है? और अधिदैव किसको कहा जाता है? यहाँ अधियज्ञ कौन है और वह इस देहमें कैसे है? हे मधूसूदन ! नियतात्मा (वशीभूत अंतःकरण वाले) मनुष्यके द्वारा अन्तकालमें आप कैसे जाननेमें आते हैं?
।।8.1।। , चतुर्षु भगवत्प्रियेष्वपि मतोऽधिकं यः प्रभोरुदारपदतः परः समचकार तं मामयम्।
परोपनिषदर्थदैरमलवाक्यदीपैस्तमो निवार्य परमं भजे तमिह काशिराजं गुरुम्।।पूर्वाध्यायान्तेते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् इत्यादिना सार्धश्लोकेन सप्त पदार्था ज्ञेयत्वेन भगवता सूत्रितास्तेषां वृत्तिस्थानीयोऽयमष्टमोऽध्याय आरभ्यते। तत्र सूत्रितानि सप्त वस्तूनि विशेषतो बुभुत्समानः श्लोकाभ्यामर्जुन उवाच -- तत् ज्ञेयत्वेनोक्तं ब्रह्म किं सोपाधिकं निरुपाधिकं वा एवमात्मानं देहमधिकृत्य तस्मिन्नधिष्ठाने तिष्ठतीत्यध्यात्मं किं श्रोत्रादिकरणग्रामो वा प्रत्यक्चैतन्यं वा तथा कर्म चाखिलमित्यत्र किं कर्म यज्ञरूपमन्यद्वाविज्ञानं यज्ञं तनुते। कर्माणि तनुतेऽपि च इति श्रुतौ द्वैविध्यश्रवणात्। तव मम च समत्वात्कथं त्वं मां पृच्छसीति शङ्कामपनुदन्सर्वपुरुषेभ्य उत्तमस्य सर्वज्ञस्य तव न किंचिदज्ञेयमिति संबोधनेन सूचयति हे पुरुषोत्तमेति। अधिभूतं च किं प्रोक्तं पृथिव्यादिभूतमधिकृत्य यत्किंचित्कार्यमधिभूतपदेन विवक्षितं किं वा समस्तमेव कार्यजातम्। चकारः सर्वेषां प्रश्नानां समुच्चयार्थः। अधिदैवं किमुच्यते देवताविषयमनुध्यानं वा सर्वदैवतेष्वादित्यमण्डलादिष्वनुस्यूतं चैतन्यं वां।
।।8.1।।ब्रह्मकर्मादिकं प्राज्ञैर्विज्ञेयं नास्मदादिभिः। इति जिज्ञासया पार्थः सन्दिहानोऽथ पृच्छति।।1।।अर्जुन उवाच -- किं तद्ब्रह्मेति द्वाभ्याम्। पूर्वेषां यत् ज्ञेयतयोक्तं तद्ब्रह्म किमध्यात्मं कर्म वा किमिति वक्तव्यम् अग्रिमाणां च ज्ञेयमधिभूतमधिदैवं च किम्।
।।8.1।। व्याख्या--'पुरुषोत्तम किं तद्ब्रह्म'-- हे पुरुषोत्तम वह ब्रह्म क्या है अर्थात् ब्रह्म शब्दसे क्या समझना चाहिये'
'किमध्यात्मम्'-- अध्यात्म शब्दसे आपका क्या अभिप्राय है
'किं कर्म' -- कर्म क्या है अर्थात् कर्म शब्दसे आपका क्या भाव है
'अधिभूतं च किं प्रोक्तम्' -- आपने जो अधिभूत शब्द कहा है उसका क्या तात्पर्य है
'अधिदैवं किमुच्यते' -- अधिदैव किसको कहा जाता है
'अधियज्ञः कथं कोऽत्र देहेऽस्मिन्' -- इस प्रकरणमें अधियज्ञ शब्दसे किसको लेना चाहिये। वह,अधियज्ञ इस देहमें कैसे है
'मधुसूदन प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः' -- हे मधुसूदन जो पुरुष वशीभूत अन्तःकरणवाले हैं अर्थात् जो संसारसे सर्वथा हटकर अनन्यभावसे केवल आपमें ही लगे हुए हैं उनके द्वारा अन्तकालमें आप कैसे जाननेमें आते हैं अर्थात् वे आपके किस रूपको जानते हैं और किस प्रकारसे जानते हैं
सम्बन्ध -- अब भगवान् आगेके दो श्लोकोंमें अर्जुनके छः प्रश्नोंका क्रमसे उत्तर देते हैं।
।।8.1।।सप्तमाध्यायान्ते ते ब्रह्म तद्विदुरित्यादिसार्धेनार्जुनस्य प्रश्नबीजानि भगवतोक्तानि अतस्तत्प्रश्नार्थमर्जुन उवाच -- किमित्यादिना। ते ब्रह्म तद्विदुः कृत्स्त्रमिति यदुक्तं तत्किं सगुणमुत निर्गुणं। ब्रह्मशब्दस्योभयत्रापि संभवात्। यच्चोक्तं कृत्स्त्रमध्यात्ममिति तत्रात्मानं देहमधिकृत्य तस्मिन्नाधिष्ठाने तिष्ठतीत्यध्यात्मशब्देन किं त्वगादीन्द्रियसमुदायो विवक्षित उत प्रत्यगात्मैव।विज्ञानं यज्ञं तनुते। कर्माणि तनुतेऽपि च इति श्रुतौ कर्मद्वैविध्यश्रवणात्कर्म चाखिलमित्यत्रापि कीदृक्वकर्म विवक्षितं किं लौकिकमुत वैदिकं यज्ञादि रुपं। पुरुषोत्तमस्य न किंचिदज्ञातमिति सूचयन्नाह -- पुरुषोत्तमेति। अधिभूतं च किं प्रोक्तं भूतेष्वाकाशादिषु वर्तमानं किंचिदेव गृह्यते उत सर्वमेव कार्यं। अधिदैवं किमुच्यते किं देवताविषयमनुध्यानमुतादित्यमण्डलादिषु वर्तमानं चैतन्यम्।
।।8.1।।पूर्वस्मिन्नध्याये मायोपहितं ब्रह्म जगत्कारणमुक्तं
तच्चोत्तमानामनुपाधिब्रह्मप्रतिपत्तावुपलक्षणं मध्यमानामुपास्यं चेति मत्वा प्रतिपत्तव्यं ब्रह्म तद्विषय एकः उपासनाविषयाश्च षट् एवं सप्त प्रश्नविषयास्ते ब्रह्म तद्विदुरित्यध्यायान्ते सार्धश्लोकेन भगवता सूत्रितास्तद्वृत्तिरूपोऽयमध्याय आरभ्यते। तत्र सूत्रितानां ब्रह्मादिशब्दानामर्थं बुभुत्सुरर्जुन उवाच। किं तत्कृत्स्नं ब्रह्मेति प्रथमः प्रश्नः। शेषः स्पष्टार्थः श्लोकः।