श्रीमद् भगवद्गीता

मूल श्लोकः

श्री भगवानुवाच

अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते।

भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः।।8.3।।

 

Hindi Translation By Swami Ramsukhdas

।।8.3।। श्रीभगवान् बोले -- परम अक्षर ब्रह्म है और जीवका अपना जो होनापन है, उसको अध्यात्म कहते हैं। प्राणियों का उद्भव (सत्ता को प्रकट) करनेवाला जो त्याग है उसको कर्म कहा जाता है।

Sanskrit Commentary By Sri Madhusudan Saraswati

।।8.3।।एवं सप्तानां प्रश्नानां क्रमेणोत्तरं त्रिभिः श्लोकैः श्रीभगवानुवाच -- प्रश्नक्रमेण हि निर्णये प्रष्टुरभीष्टसिद्धिरनायासेन स्यादित्यभिप्रायवान्भगवानत्र श्लोके प्रश्नत्रयं क्रमेण निर्धारितवान्। एवं द्वितीयश्लोकेऽपि प्रश्नत्रयं तृतीयश्लोके त्वेकमिति विभागः। निरुपाधिकमेव ब्रह्मात्र विवक्षितं ब्रह्मशब्देन नतु सोपाधिकमिति प्रथमप्रश्नस्योत्तरमाह -- अक्षरं न क्षरतीत्यविनाशि अश्नुते वा सर्वमिति सर्वव्यापकं [अक्षरत्वात्]एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनणु इत्याद्युपक्रम्यएतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतःनान्यदतोऽस्ति द्रष्टृ इत्यादिमध्ये परामृश्यएतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च इत्युपसंहृतं श्रुत्या। सर्वोपाधिशून्यं सर्वस्य प्रशासितृ अव्याकृताकाशान्तस्य कृत्स्नस्य प्रपञ्चस्य धारयितृ अस्मिंश्च शरीरेन्द्रियसंघाते विज्ञातृ निरुपाधिकं चैतन्यं तदिह ब्रह्मेति विवक्षितम्। एतदेव विवृणोति -- परममिति। परमं स्वप्रकाशपरमानन्दरूपं प्रशासनस्य कृत्स्नजडवर्गधारणस्य च लिङ्गस्य तत्रैवोपपत्तेःअक्षरमम्बरान्तधृतेः इति न्यायात्। न त्विहाक्षरशब्दस्य वर्णमात्ररूढत्वाच्छ्रुतिलिङ्गाधिकरणन्यायमूलकेनरूढिर्योगमपहरति इति न्यायेन रथकारशब्देन जातिविशेषवत्प्रणवाख्यमक्षरमेव ग्राह्यं तत्रोक्तलिङ्गसंभवात्ओमित्येकाक्षरं ब्रह्म इति च परेण विशेषणात्आनर्थक्यप्रतिहतानां विपरीतं बलाबलम् इति न्यायात्वर्षासु रथकार आदधीत इत्यत्र तु जातिविशेषे नास्त्यसंभव इति विशेषः। अनन्यथासिद्धेन तु लिङ्गेन श्रुतेर्बाधःआकाशस्तल्लिङ्गात् इत्यादौ विवृतः। एत्तावांस्त्विह विशेषः। अनन्यथासिद्धेन लिङ्गेन श्रुतेर्बाधे यत्र योगः संभवति तत्र स एव गृह्यते मुख्यत्वात् यथाआज्यैः स्तुवते पृष्ठैः स्तुवते इत्यादौ। यथा चात्रैवाक्षरशब्दे। यत्र तु योगोऽपि न संभवति तत्र गौणी वृत्तिर्यथाऽऽकाशप्राणादिशब्देषु। आकाशशब्दस्यापि ब्रह्मणि आसमन्तात्काशत इति योगः संभवतीति चेत्स एव गृह्यतामिति पञ्चपादीकृतः। तथाच पारमर्षं सूत्रंप्रसिद्धेश्च इति। कृतमत्र विस्तरेण। तदेवं किं तद्ब्रह्मेति निर्णीतम्। अधुना किमध्यात्ममिति निर्णीयते -- यदक्षरं ब्रह्मेत्युक्तं तस्यैव स्वभावः स्वो भावः स्वरूपं प्रत्यक्चैतन्यं नतु स्वस्य भाव इति षष्ठीसमासः लक्षणाप्रसङ्गात्। षष्ठीतत्पुरुषबाधेन कर्मधारयपरिग्रहस्य श्रुतपदार्थान्वयेन निषादस्थपत्यधिकरपासिद्धत्वात्। तस्मान्न ब्रह्मणः संबन्धि किंतु ब्रह्मस्वरूपमेव। आत्मानं देहमधिकृत्य भोक्तृतया वर्तमानमध्यात्ममुच्यतेऽध्यात्मशब्देनाभिधीयते न करणग्राम इत्यर्थः। यागदानहोमात्मकं वैदिकं कर्मैवात्र कर्मशब्देन विवक्षितमिति तृतीयप्रश्नोत्तरमाह। भूतानां भवनधर्मकाणां सर्वेषां स्थावरजङ्गमानां भावमुत्पत्तिमुद्भवं वृद्धिं च करोति यो विसर्गस्त्यागस्तत्तच्छास्त्रविहितो यागदानहोमात्मकः स इह कर्मसंज्ञितः कर्मशब्देनोक्त इति यावत्। तत्र देवतोद्देशेन द्रव्यत्यागो याग उत्तिष्ठद्धोमो वषट्कारप्रयोगान्तः स एव उपविष्टहोमः स्वाहाकारप्रयोगान्त आसेचनपर्यन्तो होमः। परस्वत्वापत्तिपर्यन्तः स्वत्वत्यागो दानं सर्वत्र च त्यागांशोऽनुगतः तस्य च भूतभावोद्भवकरत्वम्अग्नौ प्रास्ताहुतिः,सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः इति स्मृतेः।ते वा एते आहुती हुते उत्क्रामतः इत्यादिश्रुतेश्च।

Sanskrit Commentary By Sri Vallabhacharya

।।8.3।।प्रश्नक्रमेणोत्तरमाह श्रीभगवान् -- अक्षरमिति त्रिभिः। अत्रवदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम्। ब्रह्मेति परमात्मेति भगवानिति शब्द्यते इति भागवतपद्ये [1।2।11] ब्रह्माक्षरोऽव्यक्तोऽगणितानन्दकः यः परमात्मा सत्त्वदर्शनीयाङ्गः प्रकटानन्दांशः भगवान् पुरुषोत्तमो दर्शनीयाङ्गो निर्गुणः सदानन्द इत्युपपादितम्। यत् ब्रह्मेति निर्दिष्टं परमं प्रधानं उत्कृष्टमक्षरं न क्षरतीत्यक्षरं क्षेत्रज्ञं समष्टिव्यष्टिमूलं कूटस्थं गणितानन्दकमध्यात्मरूपं भगवतोऽभिन्नमपि पृथगुच्यते भगवद्धामत्वादित्यग्रे वक्ष्यते। यथा च सात्वततंत्रे -- विष्णोस्तु त्रीणि रूपाणि पुरुषाख्यान्यथो विदुः। प्रथमं महतः स्रष्टृ द्वितीयं खण्डसंस्थितम्। तृतीयं सर्वभूतस्थं तानि ज्ञात्वा विमुच्यते इति प्रथमं अक्षरं द्वितीयं समष्टिरूपं तृतीयं व्यष्टिजीवरूपमिति बोध्यम्। अध्यात्मं आत्मनि अधिगम्यमान षोडशकलं सूक्ष्मं सेन्द्रियमनोरूपं स्वभावः। भूतेति -- भूतानां पञ्चानां भावो भौतिकं शरीरं तस्योद्भवकरो (भावेन वासनया उद्भवकरो) विसर्गःअग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठति (ते) इति पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति [छा.उ.5।3।3] इति श्रुतिप्रतिपादितः कर्मपदस्यार्थः विशेषेण सर्जनस्वभावत्वात् इति पूर्वेषां वेद्यं निर्णीत्तम्।

Hindi Commentary By Swami Ramsukhdas

।।8.3।। व्याख्या--'अक्षरं ब्रह्म परमम्'--परम अक्षरका नाम ब्रह्म है। यद्यपि गीतामें ब्रह्म शब्द प्रणव वेद प्रकृति आदिका वाचक भी आया है तथापि यहाँ ब्रह्म शब्दके साथ परम और अक्षर विशेषण देनेसे यह शब्द सर्वोपरि सच्चिदानन्दघन अविनाशी निर्गुणनिराकार परमात्माका वाचक है।

'स्वभावोऽध्यात्ममुच्यते'--अपने भाव अर्थात् होनेपनका नाम स्वभाव है --'स्वो भावः स्वभावः'। इसी स्वभावको अध्यात्म कहा जाता है अर्थात् जीवमात्रके होनेपनका नाम अध्यात्म है।

ऐसे तो आत्माको लेकर जो वर्णन किया जाता है वह भी अध्यात्म है अध्यात्ममार्गका जिसमें वर्णन हो वह मार्ग भी अध्यात्म है और इस आत्माकी जो विद्या है उसका नाम भी अध्यात्म है (गीता 10। 32)। परन्तु यहाँ स्वभाव विशेषणके साथ अध्यात्म शब्द आत्माका अर्थात् जीवके होनेपन का (स्वरूपका) वाचक है।

          'भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः'-- स्थावरजङ्गम जितने भी प्राणी देखनेमें आते हैं उनका जो भाव अर्थात् होनापन है उस होनेपनको प्रकट करनेके लिये जो विसर्ग अर्थात् त्याग है उसको कर्म कहते हैं।महाप्रलयके समय प्रकृतिकी अक्रियअवस्था मानी जाती है तथा महासर्गके समय प्रकृतिकीसक्रिय अवस्था मानी जाती है। इस सक्रियअवस्थाका कारण भगवान्का संकल्प है कि मैं एक ही बहुत रूपोंसे हो जाऊँ। इसी संकल्पसे सृष्टिकी रचना होती है। तात्पर्य है कि महाप्रलयके समय अहंकार और सञ्चित कर्मोंके सहित प्राणी प्रकृतिमें लीन हो जाते हैं और उन प्राणियोंके सहित प्रकृति एक तरहसे परमात्मामें लीन हो जाती है। उस लीन हुई प्रकृतिको विशेष क्रियाशील करनेके लिये भगवान्का पूर्वोक्त संकल्प ही विसर्ग अर्थात्,त्याग है। भगवान्का यह संकल्प ही कर्मोंका आरम्भ है जिससे प्राणियोंकी कर्मपरम्परा चल पड़ती है। कारण कि महाप्रलयमें प्राणियोंके कर्म नहीं बनते प्रत्युत उसमें प्राणियोंकी सुषुप्तअवस्था रहती है। महासर्गके आदिसे कर्म शुरू हो जाते हैं।

चौदहवें अध्यायमें आया है -- परमात्माकी मूल प्रकृतिका नाम महद्ब्रह्म है। उस प्रकृतिमें लीन हुए जीवोंका प्रकृतिके साथ विशेष सम्बन्ध करा देना अर्थात् जीवोंका अपनेअपने कर्मोंके फलस्वरूप शरीरोंके साथ सम्बन्ध करा देना ही परमात्माके द्वारा प्रकृतिमें गर्भस्थापन करना है (गीता 14। 3 4)। उसमें भी अलगअलग योनियोंमें तरहतरहके जितने शरीर पैदा होते हैं उन शरीरोंकी उत्पत्तिमें प्रकृति हेतु है और उनमें जीवरूपसे भगवान्का अंश है -- 'ममैवांशो जीवलोके' (गीता 15। 7)। इस प्रकार प्रकृति और पुरुषके अंशसे सम्पूर्ण प्राणी पैदा होते हैं।

तेरहवें अध्यायके छब्बीसवें श्लोकमें भगवान्ने कहा है कि स्थावरजङ्गम जितने भी प्राणी उत्पन्न होते हैं वे सब क्षेत्र (प्रकृति) और क्षेत्रज्ञ(पुरुष) के संयोगसे ही होते हैं। क्षेत्रक्षेत्रज्ञका विशेष संयोग अर्थात् स्थूलशरीर धारण करानेके लिये भगवान्का संकल्परूप विशेष सम्बन्ध ही स्थावरजङ्गम प्राणियोंके स्थूलशरीर पैदा करनेका कारण है। उस संकल्पके होनेमें भगवान्का कोई अभिमान नहीं है प्रत्युत जीवोंके जन्मजन्मान्तरोंके जो कर्मसंस्कार हैं वे महाप्रलयके समय परिपक्व होकर जब फल देनेके लिये उन्मुख होते हैं तब भगवान्का संकल्प होता है (टिप्पणी प0 450)। इस प्रकार जीवोंके कर्मोंकी प्रेरणासे भगवान्में मैं एक ही बहुत रूपोंसे हो जाऊँ -- यह संकल्प होता है।मनुष्यमात्रके द्वारा विहित और निषिद्ध जितनी क्रियाएँ होती हैं उन सब क्रियाओंका नाम कर्म है। तात्पर्य है कि मुख्य कर्म तो भगवान्का संकल्प हुआ और उसके बाद कर्मपरम्परा चलती है।

Sanskrit Commentary By Sri Dhanpati

।।8.3।।क्रमेण कृतानां प्रश्नानां तथैव प्रतिवचने प्रश्नकर्तुरिष्टं सुखेन प्रश्नोत्तरदानं सिध्यतीत्याशयवानर्जुनकृतप्रश्नानां क्रमेण निर्णयाय श्रीभगवानुवाच। तत्रते ब्रह्म तद्विदुः कृत्स्त्रमि त्यत्र निर्गुणं ब्रह्म विविक्षितमिति प्रथमप्रश्नस्योत्तरमाह -- अक्षरं ब्रह्मेति। यदुक्तं किं तदब्रह्मेति तदक्षरं न क्षरतीत्यक्षरं विनाशरहितं अश्रुते व्याप्नोति सर्वमिति व्युत्पत्त्या वाक्षरं सर्वत्र व्यापकम्। रुढ्याक्षरशब्देनोंकारप्रतिपत्तिभ्रमं वारयति -- परममिति। परत्वं निरतिशयं परमात्मन एव पृथिव्याद्याकाशान्तस्य विकारजातस्य धारणात्। तथाच सूत्रंअक्षरमम्बरान्तधृतेः इतिकस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति सहोवाचैतद्वैतदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनणु इत्यादि श्रुयते। तत्र संशयः किमक्षरशब्देनि वर्ण उच्यते किंवा परमेश्वर इति। तत्राक्षरसमाम्राय इत्यादावक्षरशब्दस्य वर्णे प्रसिद्धत्वात् प्रसिद्य्धतिक्रमस्य चायुक्तत्वादोंकार एवेदं सर्वमित्यादौ च श्रुत्यन्तरे वर्णस्याप्युपास्यत्वेन सर्वात्मत्वावधारणात् वर्ण एवाक्षरशब्दवाच्य इत्येवं प्राप्त उच्यते। परएव आत्माक्षरशब्दवाच्यः कस्मादम्बरान्तधृतेः पृथिव्यादेराकाशान्तस्य विकारजातस्य धारणात्। तत्र हि पृथिव्यादेः समस्तस्य विकारजातस्य कालत्रयप्रविभक्तस्याकाशएव तदोतं च प्रोतं चेत्याकाशप्रतिष्ठत्वमुकत्वा कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेत्यनेन प्रश्नेनेदमक्षरमवतीरितं। तथाचोपसंहृतमेतस्मिन्खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति। नचेयमम्बरान्तधृतिर्ब्रह्मणोऽन्यत्र संभवति। यदप्योंकार एवेदं सर्वमिति तदपि ब्रह्मप्रतिपत्तिसाधनत्वात्स्तुत्यर्थं द्रष्टव्यम्। तस्मान्न क्षरत्यश्रुते वेति नित्यत्वव्यापित्वाभ्यामक्षरं परमेव ब्रह्मेति परममिति विशेषणादक्षरशब्देन जीवप्रधानप्रतिभ्रमोऽपि चारितः।।तृतीयप्रश्नस्योत्तरमाह -- भूतभावोद्भवकरः भूतानां भावो भूतभावः तस्योद्भवो भूतभावोद्भवस्तं करोतीति भूतभावोद्भवकरो भूतवस्तूत्पत्तिकर इति। भाष्ये भूतान्येव भावास्तेषामुद्भवः समुत्पत्तिस्तां करोतीति व्युत्पत्तिं सिद्धवत्कृत्य विधान्तरेण व्युत्पादयति -- भूतानामिति। भावः सद्भावो वस्तुभाव इति तट्टीकाकाराः। एवंच भूतानां भवनधर्मकाणां भाव उत्पत्तिः उद्भवो वृद्धिश्च तयोः करः भूतभावोद्भवकर इत्यादिष्युत्पत्तिसिद्धवत्करोऽपि बोध्यः। विसर्जन विसर्गः देवतोद्देशेन चरुपुरोडाशादेर्द्रव्यस्य परित्यागः सएव विसर्गलक्षणो यज्ञादिरुपो वेदविहितः कर्म संज्ञितः कर्मशब्देन मयोक्त इत्यर्थः।अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः।। इत स्मृतिभूतानां चराचराणामुद्भवमेतस्मात्कर्मणो दर्शयति।

Sanskrit Commentary By Sri Neelkanth

।।8.3।।क्रमेणैषां प्रश्नानामुत्तरमाह -- अक्षरमित्यादिभिस्त्रिभिः। तत्र किं तद्ब्रह्मेत्यस्योत्तरमक्षरं परमं ब्रह्मेति। यत्परमक्षरं तद्ब्रह्मेति योजना। अक्षरशब्दस्य वर्णेषु रूढत्वात्ओमित्येतदक्षरम् इत्यादिश्रुतौओमित्येकाक्षरं ब्रह्म इति स्मृतौ च दर्शनेनात्रापि प्रणवस्याक्षरशब्देन ग्रहणे प्रसक्ते परममिति विशेषणं प्रणवस्य परब्रह्मत्वासंभवात्। अतश्चएतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घम् इति श्रुतिप्रसिद्धमखण्डैकरसं वस्तु अक्षरशब्दितं तद्ब्रह्मेति प्राञ्चः। यद्वा अक्षरशब्देन जीवःकूटस्थोऽक्षर उच्यते। उत्तमः पुरुषस्त्वन्यः इति गीतासुक्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः इति श्रुतौ च कूटस्थपदेनामृतपदेन च विशेषितस्याक्षरपदस्य जीववाचित्वदर्शनात्। अमृतोक्षरमित्यपेक्षिते उत्वाभावश्छान्दसः। तथाचाक्षरं जीवाख्यं परमं ब्रह्म। परममिति विशेषणेन सोपाधिकस्य पूर्वाध्यायोक्तस्य व्यावृत्तिः। नहि जीवस्य सोपाधिकस्य ब्रह्मभावः संभवति। व्यावर्तकोपाधौ मायादर्पणे जाग्रति तयोरभेदायोगात्।किं तद्ब्रह्म इति प्रश्ने परममिति विशेषणाभावेऽपिते ब्रह्म तद्विदुः कृत्स्नम् इति प्रश्नोत्थापके सूत्रे परमत्ववाचिना कृत्स्नपदेन ब्रह्मणो विशेषितत्वादुत्तरेऽपि ब्रह्मण एव परममिति विशेषं युज्यत एव। प्रश्नेऽपि तच्छब्देन कृत्स्नत्वस्यैव ग्रहात्। ततश्च किं तत्कृत्स्नं प्रश्ने यदक्षरं जीवाख्यं तदेवापेतोपाधिसंबन्धं सत् कृत्स्नं ब्रह्मेति तत्त्वमसीति महावाक्यार्थः प्रतीचो ब्रह्मभावः प्रतिपादितो भवतीति ह्यद्यम्। तथा स्वोऽनागन्तुको भावः स्वरूपं स्वभावः शुद्धस्त्वंपदार्थः सोऽध्यात्ममुच्यते। भाष्ये तु तस्यैव परस्य ब्रह्मणः प्रतिदेहं प्रत्यगात्मभावः स्वो भावः स्वभावोऽध्यात्ममुच्यते अध्यात्मशब्देनाभिधीयत इति। विसर्गो देवतोद्देशेन द्रव्यत्यागात्मको यागः स कर्मसंज्ञितः। तमेव विशिनष्टि -- भूतेति। भूतानां भावः सात्विकादिः स्वभावः उद्भवश्च तयोः करणात् भूतभावोद्भवकरः। तथाहिबुद्धिः कर्मानुसारिणी इति कर्मानुसारित्वं भावस्य स्मर्यते। तथा उद्भवोऽपि कर्मत एव स्मर्यते।अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः इति।