श्रीमद् भगवद्गीता

मूल श्लोकः

श्री भगवानुवाच

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा।

सात्त्विकी राजसी चैव तामसी चेति तां श्रृणु।।17.2।।

Hindi Translation By Swami Tejomayananda

।।17.2।। श्री भगवान् ने कहा -- देहधारियों (मनुष्यों) की वह स्वाभाविक (ज्ञानरहित) श्रद्धा तीन प्रकार की - सात्त्विक, राजसिक और तामसिक - होती हैं, उसे तुम मुझसे सुनो।।
 

Sanskrit Commentary By Sri Ramanuja

।।17.2।।श्रीभगवानुवाच -- सर्वेषां देहिनां श्रद्धा त्रिविधा भवति सास्वभावजा -- स्वभावः स्वासाधारणो भावः? प्राचीनवासनानिमित्तः तत्तद्रुचिविशेषः? यत्र रुचिः तत्र श्रद्धा जायते। श्रद्धा हिस्वाभिमतं साधयति एतत् इतिविश्वासपूर्विका साधने त्वरा। वासना रुचिः च श्रद्धा च आत्मधर्माः गुणसंसर्गजाः।तेषाम् आत्मधर्माणां वासनादीना जनकाः देहेन्द्रियान्तः करणविषयगता धर्माः कार्यैकनिरूपणीयाः सत्त्वादयो गुणाः? सत्त्वादिगुणयुक्तदेहाद्यनुभवजा इत्यर्थः।ततः च इयं श्रद्धा सात्त्विकी राजसी तामसी च इति त्रिविधा। ताम् इमां श्रद्धां श्रृणु। सा श्रद्धा यत्स्वभावा तं स्वभावं श्रृणु इति अर्थः।

Hindi Translation By Swami Ramsukhdas

।।17.2।।श्रीभगवान् बोले -- मनुष्योंकी वह स्वभावसे उत्पन्न हुई श्रद्धा सात्त्विकी तथा राजसी और तामसी -- ऐसे तीन तरहकी ही होती है, उसको तुम मेरेसे सुनो।

Sanskrit Commentary By Sri Abhinavgupta

।।17.2।।तदत्रोत्तरं श्रद्धानुसारेण दीयते श्रीभगवता ( omits श्रीभगवता ) -- त्रिविधेति। तत्र चायमाशयः -- शास्त्रं नाम किल पक्षपातारूषितबुद्धिपूर्वकत्वविहीनम् ( ? N पक्षपातादूषित -- ) ? तथा परामर्शदार्ढ्यरूपं बोधस्वातन्त्र्यादेव ( ? N? K -- रूपबोध -- ) दृढं परामृष्टं तथा,( ? N? K दृढपरामृष्ट ( ?N श्य ) तथा ) फलादिस्वभावं? शुद्धविमर्शनिष्यन्दवाक्तत्त्वपरमार्थपरब्रह्मस्वभावम् ( ? N omit परमार्थ S omits the succeeding पर -- ) ? स्वतन्त्रप्रसरतया आन्तरात् बोधस्वभावात् बहिःप्रसरपर्यन्तं? तच्च ( S? K? omits तच्च Substitutes सा च ) सुसूक्ष्मप्रणवादिरूपात् ( ? N -- प्रधानादिरूपव्यव -- ) व्यवहारप्रसिद्धप्रवा ( ? N -- प्रवाह -- )दपरंपरापर्यन्तम्। यदाह -- तद्विदां च स्मृतिशीले इति। ( गौतमधर्मसूत्रम् I? 2 )तच्च स्वत एव हिताहितोपदेशाय कार्याकार्यविवेचकम्। यस्य स्वभावत एव सत्त्वातिरेकसुकुमारं हृदयं? तेनाचरितं शास्त्रितमेव। अन्यस्तु रजस्तमःकलुषीकृतः शास्त्रोक्तमप्याचरन् न आचरति? शास्त्रार्थस्य कात्स्न्र्येन अननुष्ठानात्। शास्त्रं हि सत्त्ववतामेव फलवदिति शास्त्रमेवाह -- यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्।

विद्या तपश्च शीलं च स तीर्थफलमश्नुते।।इति ( M Aranya? Ch. 80? v. 30 )नान्यः? असंयतत्वात्। तस्मात् शास्त्रार्थः परित्यक्तकामक्रोधमोहेषु सफल इति तात्पर्यम् अस्य अध्यायस्य। तदेवैतत् प्रताय्यते? स्पष्टार्थत्वाच्च न विव्रियते। किं तु ( S omits किंतु ) केवलं पाठविप्रतिपत्तिनिवारणायैव लिख्यते।

Sanskrit Commentary By Sri Shankaracharya

।।17.2।। --,त्रिविधा त्रिप्रकारा भवति श्रद्धा? यस्यां निष्ठायां त्वं पृच्छसि? देहिनां शरीरिणां सा स्वभावजा जन्मान्तरकृतः धर्मादिसंस्कारः मरणकाले अभिव्यक्तः स्वभावः उच्यते? ततो जाता स्वभावजा। सात्त्विकी सत्त्वनिर्वृत्ता देवपूजादिविषया राजसी रजोनिर्वृत्ता यक्षरक्षःपूजादिविषया तामसी तमोनिर्वृत्ता प्रेतपिशाचादिपूजाविषया एवं त्रिविधां ताम् उच्यमानां श्रद्धां शृणु अवधारय।।सा इयं त्रिविधा भवति --,

English Translation By Swami Gambirananda

17.2 The Blessed Lord said That faith of the embodied beings, born of their own nature, is threefold-born of sattva, rajas and tamas. Hear about it.