श्रीमद् भगवद्गीता

मूल श्लोकः

अर्जुन उवाच

किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम।

अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते।।8.1।।

 

Sanskrit Commentary By Sri Abhinavgupta

।।8.1 -- 8.2।।ते ब्रह्म तद्विदुः इत्यादिना यत् भगवता उपक्षिप्तं तत् प्रश्ननवकपूर्वकं (S पूर्वं) निर्णयति ( निर्णाययति N निर्वर्णयति) --किं तद् ब्रह्मेति। अधियज्ञ इति। अधियज्ञः कथम् [कश्च] कोऽत्र देहे तिष्ठति इति शेषः।

Sanskrit Commentary By Sri Shankaracharya

।।8.1 -- 8.2।। --,ते ब्रह्म तद्विदुः कृत्स्नम् (गीता 7।29) इत्यादिना भगवता अर्जुनस्य प्रश्नबीजानि उपदिष्टानि। अतः तत्प्रश्नार्थम् अर्जुनः उवाच -- एषां प्रश्नानां यथाक्रमं निर्णयाय श्रीभगवानुवाच --,श्रीभगवानुवाच --,

Hindi Translation By Swami Ramsukhdas

।।8.1 -- 8.2।। अर्जुन बोले -- हे पुरुषोत्तम ! वह ब्रह्म क्या है? अध्यात्म क्या है? कर्म क्या है? अधिभूत किसको कहा गया है? और अधिदैव किसको कहा जाता है? यहाँ अधियज्ञ कौन है और वह इस देहमें कैसे है? हे मधूसूदन ! नियतात्मा (वशीभूत अंतःकरण वाले) मनुष्यके द्वारा अन्तकालमें आप कैसे जाननेमें आते हैं?

Sanskrit Commentary By Sri Ramanuja

।।8.1।।अर्जुन उवाच -- जरामरणमोक्षाय भगवन्तम् आश्रित्य यतमानानां ज्ञातव्यतया उक्तं तद् ब्रह्म अध्यात्मं च कर्म च किम् इति वक्तव्यम् ऐश्वर्यार्थिनां ज्ञातव्यम् अधिभूतम् अधिदैवं च किं त्रयाणां ज्ञातव्यः अधियज्ञशब्दनिर्दिष्टश्च कः तस्य च अधियज्ञभावः कथं प्रयाणकाले च एभिः त्रिभिः नियतात्मभिः कथं ज्ञेयः असि।