या निशा सर्वभूतानां तस्यां जागर्ति संयमी।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः।।2.69।।
श्रीमद् भगवद्गीता
।।2.69।।उक्तं लक्षणं पिण्डीकृत्याह या निशेति। या सर्वभूतानां निशा परमेश्वरस्वरूपलक्षणा। यस्यां सुप्तानीव न किञ्चिज्जानन्ति तस्यामिन्द्रियसंयुक्तो ज्ञानी जागर्ति सम्यगापरोक्ष्येण पश्यति परमात्मानमित्यर्थः। यस्यां विषयलक्षणायां भूतानि जाग्रति तस्यां निशायामिव सुप्तः प्रायो न जानाति। मत्तादिवद्गमनादिप्रवृत्तिः। तदुक्तम्देहं (च तं न चरमः) तु तत्र चरमम् भाग.3।28।37देहोऽपि दैववशगः भाग.3।28।3811।13।37 इति श्लोकाभ्याम्। मननयुक्तो मुनिः। पश्यत इत्यस्य साधनमाह।
।।2.69।।यदा पञ्चावतिष्ठन्ते इत्युदाहृतश्रुतेःतामाहुः परमां गतिम् इत्येतं चतुर्थं पादं व्याचष्टे या निशेति। सर्वेषां भूतानामज्ञानां या निशेव निशा यस्यां मध्यंदिने उलूका इवानन्धा अप्यन्धा एव सर्वे प्राणिनो भवन्ति तस्यां तस्मिन्प्रत्यग्ज्योतिषि संयमी इन्द्रियमनोबुद्धीनां निग्रहणशीलो योगी जागर्ति इन्द्रियादीनां दृक्शक्तिलोपेऽप्यनुपरतदृक्शक्तिरेवास्ते। तथा च श्रुतिःनहि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात् इति। यस्यामविद्याख्यायां निशायां क्रियाकारकादिद्वैतस्वप्नप्रवर्तिकायां सर्वाणि भूतानि जाग्रति निशीथे उलूका इव स्वस्वव्यापारे प्रवर्तन्ते सा अविद्या पश्यतो मुनेः आत्मदर्शनवतो योगिनः प्रारब्धकर्मणा विदेहकैवल्यप्रतिबन्धाल्लेशतोऽनुवर्तमाना व्युत्थानकाले व्यवहारतोऽस्य गाढान्धकारवती निशेव क्लेशकरी भवति। अतिसुकुमारा हि योगिनो बाह्यव्यवहारादुद्विजन्ते नरा इव गाढान्धकारे संचारात्। यथोक्तं योगभाष्येअक्षिमात्रकल्पो हि विद्वानत्यल्पदुःखलेशेनाप्युद्विजते इति। अत्र वार्तिकानिकारकव्यवहारे हि शुद्धं वस्तु न वीक्ष्यते। शुद्धे वस्तुनि सिद्धे च कारकव्यापृतिस्तथा। काकोलूकनिशेवायं संसारोऽज्ञात्मवेदिनोः। या निशा सर्वभूतानामित्यवोचत्स्वयं हरिः। इति।बुद्धतत्त्वस्य लोकोऽयं जडोन्मत्तपिशाचवत्। बुद्धतत्त्वोऽपि लोकस्य जडोन्मत्तपिशाचवत्। इति। तदेवं किमासीतेत्यस्योत्तरंयदा संहरते चायम् इत्यादिना एतदन्तेन ग्रन्थेन स्थितप्रज्ञः सदा समाधिमनुतिष्ठन्परमां गतिं प्राप्यास्त इत्युक्तम्।
।।2.69।। या आत्मविषया बुद्धिः सर्वभूतानां निशा निशा इव अप्रकाशिका। तस्याम् आत्मविषयायां बुद्धौ इन्द्रिय संयमी प्रसन्नमना जागर्ति आत्मानम् अवलोकयन् आस्ते इत्यर्थः। यस्यां शब्दादिविषयायां बुद्धौ सर्वाणि भूतानि जाग्रति प्रबुद्धानि भवन्ति सा शब्दादिविषया बुद्धिः आत्मानं पश्यतो मुनेः निशा इव अप्रकाशिका भवति।
।।2.69।।ज्ञानिनः सर्वकर्मत्यागप्रतिपादनार्थायया निशा इत्ययं श्लोक इति कश्चित्। तत्र तत्प्रतिपादकाक्षराश्रवणात् प्रमाणविरोधाच्चेत्याशयेन तत्प्रतिपाद्यमाह उक्तलक्षण मिति चतुश्श्लोक्या विक्षिप्योक्तम्। नन्वत्रोक्तं किमपि न प्रतीयत इत्यत आह ये ति। परमेश्वरस्वरूपस्य निशासाम्यमुपपादयति यस्या मिति। विषयत्वमधिकरणत्वं चाविवक्षित्वा कारकत्वमात्रविवक्षया साम्यमिदमुक्तम्। संयमीत्यस्याक्षरार्थं इन्द्रिये ति प्रकरणलभ्योऽर्थो ज्ञानी ति। उत्तरार्धार्थमाह यस्या मिति। अत्रापि पूर्ववत्साम्यम्। यदि न किञ्चित्पश्यति कथं तर्हि तस्य गमनादिप्रवृत्तिः इत्यत आह मत्तादिव दिति। कुत एतत् इत्यत आह तदुक्त मिति। मुनेरित्युक्तत्वाच्चतुर्थाश्रमिण एव ज्ञानमिति व्याख्यानमसदिति भावेनाह मननयुक्त इति। याज्ञवल्क्यादीनामयतीनामपि ज्ञानश्रवणादिति भावः। मननस्य प्राङ्निवृत्तत्वात्पश्यतो मुनेः इति कथं इत्यत आह पश्यत इति। दर्शनसाधनत्वेन मननमिहोक्तं न तु तत्समकालीनतयेत्यर्थः। एतच्च प्राङ्मननादेः स्पष्टदर्शनसाधनत्वानुक्तेः प्रसङ्गादिहोक्तम्। ननुस्थितधीः किं प्रभाषेत 2।54 इत्याद्यु(देरु)त्तरमयं श्लोक इति प्रागुक्तं तत्कथमिदानीं लक्षणपरतया व्याख्यातः अन्यपरादपि तल्लाभ इत्याशयेनेति ब्रूमः अन्यथाप्रभाषेत इत्यादेरुत्तरमाहेत्यत्रैवावेक्ष्यत् किं तत्र स्थानप्रदर्शनादिना इति।
।।2.69।।तदेवं मुमुक्षुणा प्रज्ञास्थैर्याय प्रयत्नपूर्वकमिन्द्रियसंयमः कर्तव्य इत्युक्तं स्थितप्रज्ञस्य तु स्वतःसिद्ध एव
सर्वेन्द्रियसंयम इत्याह। या वेदान्तवाक्यजनितसाक्षात्काररूपाऽहंब्रह्मास्मीति प्रज्ञा सर्वभूतानामज्ञानां निशेव निशा तां
प्रत्यप्रकाशरूपत्वात्तस्यां ब्रह्मविद्यालक्षणायां सर्वभूतनिशायां जागर्ति अज्ञाननिद्रायाः प्रबुद्धः सन्सावधानो वर्तते। संयमी
इन्द्रियसंयमवान् स्थितप्रज्ञ इत्यर्थः। यस्यां तु द्वैतदर्शनलक्षणायामविद्यानिद्रायां प्रसुप्तान्येव भूतानि जाग्रति स्वप्नवद्व्यवहरन्ति सा निशा न प्रकाशत आत्मतत्त्वं पश्यतोऽपरोक्षतया मुनेः स्थितप्रज्ञस्य। यावद्धि न प्रबुध्यते तावदेव स्वप्नदर्शनं
बोधपर्यन्तत्वाद्भ्रमस्य। तत्त्वज्ञानकाले तु न भ्रमनिमित्तः कश्चिद्व्यवहारः। तदुक्तं वार्तिककारैःकारकव्यवहारे हि शुद्धं वस्तु न वीक्ष्यते। शुद्धे वस्तुनि सिद्धे च कारकव्यापृतिस्तथा।।काकोलूकनिशेवायं संसारो ज्ञात्मवेदिनोः। या निशा
सर्वभूतानामित्यवोचत्स्वयं हरिः।। इति। तथाच यस्य विपरीतदर्शनं तस्य न वस्तुदर्शनं विपरीतदर्शनस्य वस्त्वदर्शनजन्यत्वात् यस्य च वस्तुदर्शनं तस्य न विपरीतदर्शनं विपरीतदर्शनकारणस्य वस्त्वदर्शनस्य वस्तुदर्शनेन बाधितत्वात्। तथाच श्रुतिःयत्र वा अन्यदिव स्यात् तत्रान्योऽन्यत्पश्येत्। यत्रत्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्।। इति विद्याविद्ययोर्व्यवस्थामाह। यथा काकस्य रात्र्यन्धस्य दिनमुलूकस्य दिवान्धस्य निशा रात्रौ पश्यतश्चोलूकस्य यद्दिनं रात्रिरेव सा काकस्येति महदाश्चर्यमेतत्। अतस्तत्त्वदर्शिनः कथमाविद्यकक्रियाकारकादिव्यवहारः स्यादिति स्वतःसिद्ध एव तस्येन्द्रियसंयम इत्यर्थः।
।।2.69।।नन्वेतादृशेन्द्रियनिग्रहकृत् किल्लँक्षणः इत्यपेक्षायामाह या निशेति। सर्वभूतानां या निशा रात्रौ निद्रायामिव विषयसुखेषु सर्वेषां या निशा सुखावाप्तिः। नितरां शं सुखं यस्यामिति निशा। तस्यां संयमी इन्द्रियनिग्रहकर्त्ता जागर्ति न सुखमवाप्नोतीत्यर्थः। यस्यां निशाया भूतानि जाग्रति न सुखं प्राप्नुवन्ति सा भगवत्सुखं पश्यतो मननशीलस्य निशा सुखाप्तिः। तत्सुखस्य कथनायोग्यत्वान्मुनेरिति विशेषणमुक्तम्।
।।2.69।।ननु च कश्चिदपि प्रसुप्त इव दर्शनादिव्यापारशून्यः सर्वात्मना निगृहीतेन्द्रियो लोके न दृश्यते अतोऽसंभावितमिदं लक्षणमित्याशङ्क्याह या निशेति। सर्वेषां भूतानां या निशा निशेव निशा आत्मनिष्ठा आत्माज्ञानध्वान्तावृतमतीनां तस्यां दर्शनादिव्यवहाराभावात् तस्यामात्मनिष्ठायां संयमी निगृहीतेन्द्रियो जागर्ति प्रबुध्यते यस्यां तु विषयबुद्ध्या भूतानि जाग्रति प्रबुद्ध्यन्ते सा आत्मतत्त्वं पश्यतो मुनेर्निशा। तस्यां दर्शनादिव्यापारस्तस्य नास्तीत्यर्थः। एतदुक्तं भवति। यथा दिवान्धानामुलूकादीनां रात्रावेव दर्शनं न तु दिवसे एवं ब्रह्मज्ञस्योन्मीलिताक्षस्यापि ब्रह्मण्येव दृष्टिर्नतु विषयेषु। अतो नासंभावितमिदं लक्षणमिति।
2.69 या which, निशा night, सर्वभूतानाम् of all beings, तस्याम् in that, जागर्ति wakes, संयमी the selfcontrolled, यस्याम् in which, जाग्रति wake, भूतानि all beings, सा that, निशा night, पश्यतः (of the) seeing, मुनेः of the Muni.
Commentary:
That which is real for the wordlyminded people is illusion for the sage, and vice versa. The sage lives in the Self. This is day for him. He is unconscious of the wordly phenomena. They are night for him, as it were. The ordinary man is unconscious of his real nature. Life in the spirit is night for him. He is experiencing the objects of sensual enjoyment. This is day for him. The Self is a nonentity for him For a sage this world is a nonentity.The wordlyminded people are in utter darkness as they have no knowledge of the Self. What is darkness for them is all light for the sage. The Self, Atman or Brahman is night for the worldlyminded persons. But the sage is fully awake. He is directly cognising the supreme Reality, the Light of lights. He is full of illumination and AtmaJnana or knowledge of the Self.