श्रीमद् भगवद्गीता

मूल श्लोकः

नैते सृती पार्थ जानन्योगी मुह्यति कश्चन।

तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन।।8.27।।

 

Sanskrit Commentary By Sri Madhavacharya

।।8.27।।एते सृती सोपाये ज्ञात्वाऽनुष्ठाय न मुह्यति। तच्चाह स्कान्दे -- सृती ज्ञात्वा च सोपाये अनुष्ठाय च साधनम्। न कश्चिन्मोहमाप्नोति न चान्या तत्र वै गतिः इति।