श्रीमद् भगवद्गीता

मूल श्लोकः

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः।

कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन।।6.46।।

 

Sanskrit Commentary By Sri Sridhara Swami

।।6.46।।यस्मादेवं तस्मात् तपस्विभ्य इति। कृच्छृचान्द्रायणादितपोनिष्ठेभ्योऽपि ज्ञानिभ्यः शास्त्रज्ञानवद्भ्योऽपि कर्मिभ्य इष्टापूर्तादिकर्मकारिभ्योऽपि योगी श्रेष्ठोऽभिमतः तस्मात्त्वं योगी भव।

Sanskrit Commentary By Sri Madhavacharya

।।6.46।।ज्ञानिभ्यो योगज्ञानिभ्यः। तपस्विभ्यः कृच्छ्रादिचारिभ्यः। उक्तं च कृच्छ्रादेरपि यज्ञादेर्ध्यानयोगो विशिष्यते। तत्रापि शेषश्रीब्रह्मशिवादिध्यानतो हरेः। ध्यानं कोटिगुणं प्रोक्तमधिकं वा मुमुक्षुणाम् इति गारुडे।अज्ञात्वा ध्यायिनो ध्यानाज्ज्ञानमेव विशिष्यते। ज्ञात्वा ध्यानं ज्ञानमात्राद्ध्यानादपि तु दर्शनम्। दर्शनादपि भक्तेश्च न किञ्चित्साधनाधिकम् इति च नारदीये।

English Commentary By Swami Sivananda

6.46 तपस्विभ्यः than ascetics, अधिकः superior, योगी the Yogi, ज्ञानिभ्यः than the wise, अपि even, मतः thought, अधिकः superior, कर्मिभ्यः than the men of action, च and, अधिकः superior, योगी the Yogi, तस्मात् therefore, योगी a Yogi, भव be, अर्जुन O Arjuna.

Commentary:
Tapasvi One who observes the austerities of speech, mind and body prescribed in chapter XVII. 14, 15 and 16.Jnani One who has a knowledge of the scriptures (an indirect knowledge or theoretical knowledge of the Self).Karmi He who performs the Vedic rituals.To all these the Yogi is superior, for he has the direct knowledge of the Self through intuition or direct cognition through Nirvikalpa Samadhi. (Cf.V.2XII.12XIII.24)

English Translation By Swami Adidevananda

6.46 Greater than the austere, greater than those who possess knowledge, greater than the ritualists is the Yogin. Therefore, O Arjuna, become a Yogin.