श्रीमद् भगवद्गीता

मूल श्लोकः

अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे।

रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके।।8.18।।

 

Sanskrit Commentary By Sri Sridhara Swami

।।8.18।। ततः किमत आह -- अव्यक्तादिति। कार्यस्याव्यक्तं रूपं कारणात्मकं तस्मादव्यक्तात्कारणरूपाद्व्यज्यन्तेऽभिव्यज्यन्त इति व्यक्तयश्चराचराणि भूतानि प्रादुर्भवन्ति। कदा। अहरागमे ब्रह्मणो दिनस्योपक्रमे। तथा रात्रेरागमे ब्रह्मशयने तस्मिन्नेवाव्यक्तसंज्ञके कारणरूपे प्रलयं यान्ति। यद्वा तेऽहोरात्रविद इत्येतन्न विधीयते किंतु ते प्रसिद्धा अहोरात्रविदो जना यद्ब्रह्मणोऽहविंदुस्तस्याह्न आगमे अव्यक्ताद्व्यक्तयः प्रभवन्ति यां च रात्रिं विदुस्तस्या,रात्रेरागमे प्रलीयन्त इति द्वयोरन्वयः।

Sanskrit Commentary By Sri Madhavacharya

।।8.17 -- 8.19।।मां प्राप्य न पुनरावृत्तिरिति स्थापयितुं अव्यक्ताख्यात्मसामर्थ्यं दर्शयितुं प्रलयादि दर्शयति -- सहस्रयुगेत्यादिना। सहस्रशब्दोऽत्रानेकवाची। ब्रह्मपरम्। सा विश्वरूपस्य रजनी इति श्रुतिः। द्विपरार्धप्रलय एवात्र विवक्षितः।अव्यक्ताद्व्यक्तयः सर्वाः [8।18] इत्युक्तेः। उक्तं च महाकौर्मेअनेकयुगपर्यन्तं महाविष्णोस्तथा निशा। रात्र्यादौ लीयते सर्वमहरादौ तु जायते इति च।यः स सर्वेषु भूतेषु [8।20] इति वाक्यशेषाच्च।

English Commentary By Swami Sivananda

8.18 अव्यक्तात् from the Unmanifested, व्यक्तयः the manifested, सर्वाः all, प्रभवन्ति proceed, अहरागमे at the coming of day, रात्र्यागमे at the coming of night, प्रलीयन्ते dissolve, तत्र there, एव verily, अव्यक्तसंज्ञके in that which is called the Unmanifested.

Commentary:
When Brahma awakes, all manifestations, moving and unmoving (animate and inanimate) stream forth at the coming of the day from the Avyakta or the Unmanifested. When Brahma goes to sleep, all the manifestations merge in the Unmanifested, for the cosmic night has set in.Coming of the day Commencement of creation.Coming of the night Commencement of dissolution. (Cf.IX.7and8)