श्रीमद् भगवद्गीता

मूल श्लोकः

अनेकबाहूदरवक्त्रनेत्रं

पश्यामि त्वां सर्वतोऽनन्तरूपम्।

नान्तं न मध्यं न पुनस्तवादिं

पश्यामि विश्वेश्वर विश्वरूप।।11.16।।

 

Sanskrit Commentary By Sri Ramanuja

।।11.16।।अनेकबाहूदरवक्त्रनेत्रम् अनन्तरूपं त्वां सर्वतः पश्यामि। विश्वेश्वर विश्वस्त नियन्तः विश्वरूप विश्वशरीर यतः त्वम् अनन्तः? अतः तव न अन्तं न मध्यं न पुनः तव आदिं च पश्यामि।