इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः।
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते।।13.19।।
श्रीमद् भगवद्गीता
।।13.19।।विकारार्न्तभावाज्ज्ञानसाधनं प्रथमत उक्तम्। बहुत्वात्साधनात्युपयोगात् प्रभावः।
।।13.19।।उक्तमर्थजातमुपसंहरति -- इतीति। क्षेत्रं महाभूतादिधृत्यन्तम्। ज्ञानं ज्ञानसाधनममानित्वादि तत्त्वज्ञानार्थदर्शनान्तम्। ज्ञेयमनादिमत्परमित्यादि धिष्ठितमित्यन्तम्। श्रुतिभ्यः स्मृतिभ्यश्च समासतः संक्षेपत उक्तम्। मद्भक्त एतत्त्रयं विज्ञाय मद्भावाय ब्रह्मभावायोपपद्यते युक्तो भवति। भक्त्यैव प्राप्यं ब्रह्म यत्प्राप्य ब्रह्मैव भवति। तथा च श्रुतिःयस्य देवे परा भक्तिर्यथा देवे तथा गुरौ। तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः इति।ब्रह्म वेद ब्रह्मैव भवति इति च।
।।13.19।।प्रकृतिपुरुषौ उभौ अन्योन्यसंसृष्टौ अनादी इति विद्धि। बन्धहेतुभूतान् विकारान् इच्छाद्वेषादीन् अमानित्वादिकान् च गुणान् मोक्षहेतुभूतान् प्रकृतिसंभवान् विद्धि।पुरुषेण संसृष्टा इयम् अनादिकालप्रवृत्ता क्षेत्राकारपरिणता प्रकृतिः स्वविकारैः इच्छाद्वेषादिभिः पुरुषस्य बन्धहेतुः भवति। सा एव अमानित्वादिभिः स्वविकारैः पुरुषस्यापवर्ग हेतुः भवति इत्यर्थः।संसृष्टयोः प्रकृतिपुरुषयोः कार्यभेदम् आह --
।।13.19।।उपसंहरन्नुक्तयाथात्म्यज्ञानस्य फलं चाह -- इति इति श्लोकेन। प्रकृतपरामर्शिन एतच्छब्दस्य विशेषकाभावात्प्रकृतार्थत्रयविषयत्वमाहक्षेत्रयाथात्म्यमित्यादिना।मद्भावाय इत्यत्र साम्यश्रुत्यादिविरुद्धतादात्म्यभ्रमव्युदासायाहमम यो भावः स्वभाव इति। नित्यसिद्धज्ञानत्वादिस्वभावव्यवच्छेदायाहअसंसारित्वमिति।उपपद्यते इत्यस्य ज्ञानजन्ययोग्यतायां तात्पर्यमुपपन्नशब्देन दर्शितम्।
।।13.19।।ननु ब्रह्मणि प्रतिपादिते केन साधनेनेदं बुद्ध्यारूढं भवेत् इत्याकाङ्क्षायां साधनं पश्चाद्वक्तव्यं तत्कुतः प्रथमत उक्तं इत्यत आह -- विकारेति। विकारेष्वन्तर्भावं ज्ञापयितुं तदनन्तरमुपोद्धातप्रक्रिययोक्तमिति भावः। उद्देशक्रमानुसारेणयतश्च यत् [13।4] इति प्रथममनुक्त्वास च यो यत्प्रभावश्च [13।4] इत्येतत्कुत उक्तमित्यत आह -- बहुत्वादिति। सूचीकटाहनिर्माणादौ बहुत्वस्य प्राथम्यव्यभिचाराद्धेत्वन्तरोक्तिः। अलौकिकस्य प्रभावस्य बुद्धयारोहे हि साधनानामत्युपयोगः? न तु तावान् लौकिकस्य प्रेरकत्वस्यानुभवारोह इति ज्ञापयितुं ज्ञानसाधनानन्तरमेव प्रभाव उक्तः। तत्प्रसङ्गेन चेति भावः।
।।13.19।।उक्तं क्षेत्रादिकमधिकारिणं फलं च वदन्नुपसंहरति -- इति क्षेत्रमिति। इति अनेन पूर्वोक्तेन प्रकारेण क्षेत्रं महाभूतादिधृत्यन्तं? तथा ज्ञानं अमानित्वादितत्त्वज्ञानार्थदर्शनान्तं? ज्ञेयं च अनादिमत्परं ब्रह्म धिष्ठितमित्यन्तं? श्रुतिभ्यः स्मृतिभ्यश्चाकृष्य त्रयमपि मन्दबुद्ध्यनुग्रहाय मया संक्षेपेणोक्तम्। एतावानेव हि सर्वो वेदार्थो गीतार्थश्च। अस्मिंश्च पूर्वाध्यायोक्तलक्षणो मद्भक्त एवाधिकारीत्याह -- मद्भक्त इति। मद्भक्तः मयि भगवति वासुदेवे परमगुरौ समर्पितसर्वात्मभावो मदेकशरणः स एतद्यथोक्तं क्षेत्रं ज्ञानं ज्ञेयं च विज्ञाय विवेकेन विदित्वा मद्भावाय सर्वानर्थशून्यपरमानन्दभावाय मोक्षायोपपद्यते मोक्षं प्राप्तुं योग्यो भवति।यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ। तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः इति श्रुतेः। तस्मात्सर्वदा मदेकशरणः सन्नात्मज्ञानसाधनान्येव परमपुरुषार्थलिप्सुरनुवर्तेत तुच्छविषयभोगस्पृहां हित्वेत्यभिप्रायः।
।।13.19।।उपसंहरति -- इतीति। इति अमुना प्रकारेणमहाभूतानि [13।6] इत्यादिना क्षेत्रंअमानित्वं [13।8] इत्यादिना ज्ञानंअनादिमत्परं ब्रह्म [13।13] इत्यादिना ज्ञेयं? चकारेण सर्वमक्षरात्मकं समासतः सङ्क्षेपेण सौकर्यबोधार्थमुक्तम्। यदर्थमुक्तं तदाह -- मद्भक्त इति। एतदुक्तरूपं विज्ञाय विशेषेण मद्विभूत्यक्षरात्मकं ज्ञात्वा मद्भक्तो मद्भजनशीलः सन् मद्भावाय भावात्मकस्वरूपलाभाय उपपद्यते योग्यः समर्थो वा भवतीत्यर्थः।
।।13.19।। उक्तं क्षेत्रादिकमधिकारिफलसहितमुपसंहरति -- इतीति। इत्येवं क्षेत्रं महाभूतादिधृत्यन्तं तथा ज्ञानं च अमानित्वादितत्त्वज्ञानार्थदर्शनान्तम्। ज्ञेयं चअनादिमत्पर ब्रह्म इत्यादिविष्ठितम् इत्यन्तम्। वसिष्ठादिभिर्विस्तरेणोक्तं सर्वमपि मया संक्षेपेणोक्तम्। एतच्च पूर्वाध्यायोक्तलक्षणो मद्भक्तो विज्ञाय मद्भावाय ब्रह्मत्वायोपपद्यते योग्यो भवति।
13.19 इति thus, क्षेत्रम् the field, तथा as well as, ज्ञानम् knowledge, ज्ञेयम् the knowable, च and, उक्तम् have been stated, समासतः briefly, मद्भक्तः My devotee, एतत् this, विज्ञाय knowing, मद्भावाय to My being, उपपद्यते enters.
Commentary:
He whohas controlled his mind and organs, who has the knowledge of the field and the knowable, and who fixes his mind on Me becomes one with Me.Thus the field described above (beginning with the great elements and ending with firmness, verses 5 and 6), knowledge described above (beginning with humility and ending with perception of the end of true knowledge in verses 7 to 11) and the knowable described in verses 12 to 17 -- these have briefly been stated.He who has singleminded devotion unto Me, who takes Me (Vaasudeva, the Supreme Lord, the omniscient, and the supreme Guru) as the Self of everything, he who thinks and feels that all that he sees, hears and touches is nothing but the Lord and he who has the right knowledge described above enters into My Being or attains release from birth and death.