अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्।
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम्।।16.2।।
श्रीमद् भगवद्गीता
।।16.2।।कौटिल्यप्रसङ्गस्थले हि तन्निवृत्तिर्वक्तव्येत्यभिप्रायः।परपीडावर्जनमिति स्वपीडोपलक्षणम्। स्वपीडाऽपि मूर्खाणां परपीडाभिप्रायेति वा भावः। यथादृष्टार्थवचनेनैव सत्यवादी भवति तथापिसत्यं भूतहितं प्रोक्तम् इति नियमात् भूतहितोक्तिः।परपीडाफलेति प्राग्वद्भाव्यम्। स्वभावार्थशास्त्रप्राप्तानां निद्राशनमहायज्ञदण्डकुण्डिकादीनां त्यागायोगाद्विशेषे नियच्छति -- आत्महितप्रत्यनीकेति। दमशब्देन मनोनियमनस्योक्तत्वात्। शान्तो दान्तः [बृ.उ.4।4।23] इत्यादिष्विव शान्तिरिह बाह्येन्द्रियगतेत्यभिप्रायेणाह -- इन्द्रियाणामिति। अक्रोधाहिंसादिष्विव प्रतियोगिलक्षणद्वारेण अपैशुनं लक्षयतिपरानर्थेति।दया इत्येतावता भूतविषयत्वे सिद्धेऽपि पुनरुपादानं बहुवचनं च शत्रुमित्रादिसर्वविषयाभिप्रायेण। यथोक्तं गौतमेन -- दया सर्वेषु भूतेषु क्षान्तिरनसूया शौचमनायासो मङ्गलमकार्पण्यमस्पृहा [गौ.ध.7।10] इति। अन्यत्र चसर्वभूतदया पुष्पम् [प.पु.4।73।58] इत्यादि। तदाह -- सर्वभूतेष्विति।तापत्रयेणाभिहतं यदेतदखिलं जगत्। तदाशोच्येषु भूतेषु करुणां न करोति कः (द्वेषं प्राप्तः करोति कः) [वि.पु.1।17।70] इति हि करुणाख्यचित्तपरिकर्म प्रह्लादः प्राह। दुःखासहिष्णुत्वं तन्निराकरणेच्छेत्यर्थः। लुपिधातौ यङ्लुगन्ते क्विपि कृते लोलुबिति पकारान्तं पदम् अचि कृते तु सोलुप इति? तद्व्यञ्जयति -- अलोलुप्त्वम् अलोलुपत्वमिति।लृञ् छेदने [धा.पा.9।11] इति धातौ लोट् इति यङ्लुगन्तम्। तत्रत्वे च [अष्टा.3।3।64] इति च्छान्दसं ह्रस्वमभिप्रेत्याह -- अलोलुत्वमिति वा पाठ इति। अयोग्यस्पृहारूपं लौल्यमिह निषिध्यत इत्यभिप्रायेणाह -- विषयेष्विति। मुख्यस्य मार्दवस्यात्रानन्वयात् पूर्वभाषित्वमुखसौम्यत्वादिव्यङ्ग्यमौपचारिकं दर्शयितुमाह -- अकाठिन्यमिति। कठिनं हि द्रव्यमन्येषां अनुप्रवेशानर्हम् तद्वदिह स्तब्धप्रकृतिरिति तद्व्यतिरेकविवक्षया फलतो मार्दवं व्यनक्ति -- साधुजनेति। अवमतत्वादीनां योगोपकारकत्वात्तन्मूला व्रीडा सत्त्वनिष्ठानामयुक्ता अत उपयुक्तं ह्रीविशेषमाह -- अकार्यकरणे व्रीडेति। प्रख्याताभिजनविद्यावृत्ता हि महान्तः परेष्वप्यकार्यकारिष्वपत्रपन्ते स्वयं तु किमुतेति भावः। अलोलुपत्वाचापलत्वयोरपौनरुक्त्यायाह -- स्पृहणीयविषयसन्निधाविति। एतेन क्रीडापरिहासमृगयाक्षादिष्व प्रसङ्गोऽपि दर्शितः।
।।16.2।।अहिंसा परपीडावर्जनम्।
सत्यं यथादृष्टार्थगोचरभूतहितवाक्यम्।
अक्रोधः परपीडाफलचित्तविकाररहितत्वम्।
त्यागः आत्महितप्रत्यनीकपरिग्रहविमोचनम्।
शान्तिः इन्द्रियाणां विषयप्रावण्यनिरोधसंशीलनम्।
अपैशुनं परानर्थकवाक्यनिवेदनाकरणम्।
दया भूतेषु सर्वेषु दुःखासहिष्णुत्वम्।
अलोलुप्त्वम्? अलोलुपत्वम्? अलोलुत्वम् इति वा पाठः। विषयेषु निःस्पृहत्वम् इत्यर्थः।
मार्दवम् अकाठिन्यम् साधुजनसंश्लेषार्हता इत्यर्थः।
ह्रीः अकार्यकरणे व्रीडा।
अचापलं स्पृहणीयविषयसन्निधौ अचपलत्वम्।