श्रीमद् भगवद्गीता

मूल श्लोकः

श्री भगवानुवाच

परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्।

यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः।।14.1।।

Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha



।।14.1।।पूर्वाध्यायप्रकृतविशोधनरूपतयाऽस्य तत्सङ्गतिं प्रदर्शयन्गुणबन्धविधा तेषां कर्तृत्वं तन्निवर्तनम्। गतित्रयस्वमूलत्वं चतुर्दश उदीर्यते [गी.सं.18] इति सङ्ग्रहश्लोकं व्याचष्टे -- त्रयोदश इति।इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते [13।2] इत्यारभ्यइति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः। मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते [13।19] इत्यन्तार्थमभिप्रेत्यप्रकृतिपुरुषयोरित्यादि बन्धान्मुच्यत इत्युक्तमित्यन्तमभिहितम्।गुणानां बन्धहेतुताप्रकार इत्यनेनगुणबन्धविधा इत्येतद्व्याख्यातम्।गुणनिवर्तनप्रकारश्चेत्यनेनतन्निवर्तनम् इत्येतद्व्याख्यातम्। सङ्ग्रहोक्तगुणकर्तृत्वगतित्रयस्वमूलत्वयोर्भाष्येऽनुक्तिरन्यार्थानुवादत्वप्रासङ्गिकत्वाभ्यामिति द्रष्टव्यम्।परशब्दस्योत्कृष्टपरत्वे उत्तमशब्देन पौनरुक्त्यं स्यादित्यन्यथा व्याचष्टेपूर्वोक्तादन्यदिति। एवं सत्युक्तस्यैव पुनर्वचनपरंभूयः प्रवक्ष्यामि इत्येतद्विरुध्येतेत्याशङ्कावारणाय तदभिप्रेतमाह -- प्रकृतिपुरुषान्तर्गतमेवेति। संग्रहेण पूर्वाध्यायोक्तं गुणानां बन्धहेतुत्वमेव विस्तरेणात्र भूयः प्रवक्ष्यामीत्यर्थ इति न विरोध इति भावः।ज्ञानानामुत्तमं ज्ञानं भूयः प्रवक्ष्यामि इत्यन्वयसम्भवेऽपि तज्ज्ञानस्यावश्यज्ञातव्यत्वसिद्धये ज्ञानानामुत्तमत्वस्य वाक्यभेदेन विधेयतयाऽन्वयमाह -- तच्च ज्ञानमिति।ज्ञानानाम् इति सामान्यनिर्देशेन सर्वज्ञानापेक्षयोत्तमत्वलाभेऽपि भगवद्विषयज्ञानापेक्षयोत्तमत्वासम्भवात्तद्व्यवच्छेदायसर्वेषां प्रकृतिपुरुषविषयज्ञानानामित्युक्तम्। एतज्ज्ञानविषयज्ञानमात्रस्य परसिद्धिहेतुत्वासम्भवात्तदभ्यासरूपानुष्ठानालाभाच्चसर्वे मुनयस्तन्मननशीला इत्युक्तम्।इतः इत्यस्य प्रकृतज्ञानहेतुतापरत्वे? तदभावेऽपि भूतभव्यसमुच्चारिन्यायेन तद्धेतुतालाभाद्भगवद्भक्त्यैकलभ्यभगवत्प्राप्तिरूपसिद्धेरेतत्साध्यत्वासम्भवेन परत्वप्रतिसम्बन्धिविशेषस्य अपेक्षितत्वाच्च तत्परत्वमाह -- इतः संसारमण्डलात्परामिति। इयं परा सिद्धिः कीदृशी इत्यतः तत्स्वरूपमाह -- परां परिशुद्धात्मस्वरूपप्राप्तिरूपामिति।

Sanskrit Commentary By Sri Ramanuja

।।14.1।।श्रीभगवानुवाच -- परं पूर्वोक्ताद् अन्यत् प्रकृतिपुरुषान्तर्गतम् एव सत्त्वादिगुणविषयं ज्ञानं भूयः प्रवक्ष्यामि तत् च ज्ञानं सर्वेषां प्रकृतिपुरुषविषयज्ञानानाम् उत्तमम् यद् ज्ञानं ज्ञात्वा सर्वे मुनयः तन्मननशीलाः इतः संसारमण्डलात् परां सिद्धिं गताः परिशुद्धात्मस्वरूपप्राप्तिरूपां सिद्धिम् अवाप्ताः।पुनः अपि तद् ज्ञानं फलेन विशिनष्टि --