श्रीमद् भगवद्गीता

मूल श्लोकः

ब्रह्मणो हि प्रतिष्ठाऽहममृतस्याव्ययस्य च।

शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च।।14.27।।

Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha



।।14.27।।एवमपवर्गप्रदानप्रसङ्गे शारीरके यथाफलमत उपपत्तेः [ब्र.सू.3।2।38] इति सामान्यतः सकलफलप्रदत्वं फलस्यानन्याधीनत्वख्यापनायोपपादितं? तथात्रापि मध्यमषट्कप्रपञ्चितफलत्रयप्रदातृत्वं प्रकृतहेतुत्वस्थापनार्थतयाऽनन्तरश्लोकेनोच्यत इत्यभिप्रायेणाहहिशब्दो हेताविति। नात्र ब्रह्मशब्दः साक्षात्परब्रह्मविषयः?अहं ब्रह्मणः प्रतिष्ठा इति वैयधिकरण्यादिविरोधात् न च भोक्तृभोग्यनियन्तृरूपेण त्र्यंशस्य ब्रह्मण ईश्वरांशः पृथुत्वात् प्रतिष्ठेति वाच्यम्? ईश्वरस्यैव ब्रह्मत्वस्थापनात् नच निर्विकल्पकं रूपं विकल्पितस्य ब्रह्मणः प्रतिष्ठेति वा? प्रत्यगात्मा परमात्मनः प्रतिष्ठेति वा वाच्यं? श्रुत्यादिवैपरीत्यात्? तन्मतनिर्मूलनाच्च नापि मूलप्रकृत्यादिविषयः? प्रस्तुतहेतुत्वायोगात् अतोब्रह्मभूयाय कल्पते [14।26] इति जीवस्य फलदशाभावित्वेन निर्दिष्टं रूपमिह ब्रह्मशब्देनोपचर्यते तादृशस्य रूपस्याहं प्रतिष्ठा।

किमुक्तं भवति मुमुक्षोः परब्रह्मसमानपरिशुद्धस्वरूपप्राप्तौ शास्त्रोदितेषु सिद्धेषु साद्ध्येषु च पदार्थेषु कः प्रधानहेतुः इति विमर्शे अहमेव विमर्शविश्रान्तिभूमिरिति। यद्वा प्रतिष्ठाशब्द आधारवाची? तच्चाधारत्वं एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः [बृ.उ.2।8।9] इति श्रुत्यनुसारेण नियमनगर्भमितिसा च प्रशासनात् [ब्र.सू.1।3।11] इति सूत्रेणोक्तम्। अतः शुद्धात्मस्वरूपस्यापि मदेकनिर्वाह्यत्वात् प्रस्तुतं ब्रह्मभूयं मद्भजनैकलभ्यमित्यर्थः। शाश्वतधर्मशब्देन तत्फललक्षणामाहअतिशयितनित्यैश्वर्यस्येति। इन्द्रप्रजापतिप्रभृतिभोगापेक्षयाऽतिशयितत्वम्। नित्यत्वं ह्यतिचिरकालवर्तित्वमात्रमापेक्षिकमिह मन्तव्यम्।वासुदेव इत्यादि।अयमभिप्रायः -- एकान्तिलभ्यं सुखमिहैकान्तिसम्बन्धादैकान्तिकमुच्यते -- इति। निर्दिष्टस्येति। ज्ञानिविशेषणम्। एवमपवर्गेऽप्यैकान्तिकसुखवचनात्पाषाणकल्पादिपक्षाः परिक्षीणाः। न चइच्छा द्वेषः सुखं दुःखम् [13।7] इति गणनात्सुखं सर्वं क्षेत्रकार्यमिति भ्रमितव्यं?रसं ह्येवायं लब्ध्वानन्दीभवति [तै.उ.2।7।1] इत्यन्यादृशसुखाभिधानात्। अतएव अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः [छा.उ.8।12।1] इति श्रुतिरपि दुःखसहचारिसुखनिषेधपरेति मन्तव्यम्।

ननु शाश्वतधर्मशब्देनातिशयितैश्वर्यलक्षणा न युक्ता? मुख्यार्थबाधाद्यभावात्नारायणः शाश्वतधर्मगोप्ता [म.भा.12।335।5] इत्यादिषु च प्रसिद्धः कार्तयुगधर्मोऽत्र शाश्वतविशेषणेन प्रतीयते तस्य प्रलयादिषु पाषण्डाद्युपप्लवेषुयदा यदा [4।7] इति क्रमेण परिपालनात्तदेकप्रतिष्ठत्वं च सर्वत्र प्रसिद्धम् तत्राह -- यद्यपीति।ब्रह्मणो हि इत्यस्य प्राप्यरूपत्वमुपपादितम्।सुखस्यैकान्तिकस्य इत्यस्य तु साक्षाद्भगवदनुभवसुखपरत्वं स्पष्टम्। अल्पत्वादिदूषितात्मानुभवैश्वर्यसुखव्यवच्छेदाय ह्यैकान्तिकशब्दः। तदुभयमध्यपाठादग्र्यप्रायन्यायेन प्रागुक्तमैश्वर्यमिह विवक्षितमिति तत्साधनवाचिना तल्लक्षणा युक्ता। अतएवानेन कार्तयुगधर्मोऽपि न विवक्षितः। ऐकान्तिकसुखसाधनत्वेन तु पृथक्सोऽनुसन्धातव्य इति। नन्विहाप्रस्तुतैश्वर्यादिप्रसङ्गः किमर्थः नचान्यदुपक्रम्यान्यन्निगमयितुं युक्तम्? कथं च तत्प्रतिष्ठारूपत्वस्य प्रकृतहेतुत्वं सिद्धस्य च हेतुभावः क्व तत्सिद्धिः कथं च गुणात्ययमन्तरेणाव्यभिचरितभगवद्भक्तियोगः तेनैव तदत्ययेऽन्योन्याश्रयणमित्यादिशङ्कायामाह -- एतदुक्तमिति। प्रागुक्तसर्वपुरुषार्थस्वाधीनताप्रत्यभिज्ञापनस्य प्रस्तुतस्य गुणात्ययपूर्वकब्रह्मभूयस्वाधीनतास्थापनं प्रयोजनम्। अव्यभिचरितभक्तियोगशब्दोऽत्र भक्त्यङ्गभूतं प्रपदनं क्रोडीकरोतीति पूर्वोत्तरैकार्थ्यमिति भावः।

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीमद्भगवद्रामानुजप्रणीतश्रीमद्गीताभाष्यटीकायां तात्पर्यचन्द्रिकायां चतुर्दशोऽध्यायः।।14।। ,

Sanskrit Commentary By Sri Ramanuja

।।14.27।।हि शब्दो हेतौ यस्माद् अहम् अव्यभिचारिभक्तियोगेन सेवितः अमृतस्य अव्ययस्य च ब्रह्मणः प्रतिष्ठा? तथा शाश्वतस्य च धर्मस्य अतिशयितनित्यैश्वर्यस्य ऐकान्तिकस्य सुखस्य चवासुदेवः सर्वम् (गीता 8।।9) इत्यादिना निर्दिष्टस्य ज्ञानिनः प्राप्यस्य सुखस्य इत्यर्थः।।यद्यपि शाश्वतधर्मशब्दः प्रापकवचनः? तथापि पूर्वोत्तरयोः प्राप्यरूपत्वेन तत्साहचर्याद् अयम् अपि प्राप्यलक्षकः।।

एतद् उक्तं भवति पूर्वत्रदैवी ह्येषा गुणमयी मम माया दुरत्यया।।मामेव ये प्रपद्यन्ते (गीता 7।।14) इत्यारभ्य गुणात्ययस्य तत्पूर्वकाक्षरैश्वर्यभगवत्प्राप्तीनां च भगवत्प्रपत्त्येकोपायतायाः प्रतिपादितत्वात् तदेकान्तभगवत्प्रपत्त्येकोपायो गुणात्ययः तत्पूर्वकब्रह्मभावः च इति।