श्रीमद् भगवद्गीता

मूल श्लोकः

तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता।

भवन्ति सम्पदं दैवीमभिजातस्य भारत।।16.3।।

 

Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha



।।16.3।।भूतेतरविषयस्तेजश्शब्दः पराभिभवनसामर्थ्ये अन्यानपेक्षतायां वा प्रयुज्यते अतोऽत्राभिभावकत्वाविनाभूतमनभिभवनीयत्वं विवक्षितम् तच्च दुर्जनावकाशप्रदायिकार्पण्याभावद्वारेत्यभिप्रायेणाह -- दुर्जनैरिति। अक्रोधात् क्षमाया विशेषं दर्शयति -- परनिमित्तपीडानुभवेऽपीति। निरपराधेषु निर्विकारता ह्यौदासीन्यमात्रम्। न तु क्षमा पठ्यते च निरपराधेष्वपि क्रोधः -- ब्राह्मणा गणिका वैद्याः सारमेयाश्च कुक्कुटाः। दृष्टमात्रेण कुप्यन्ति न जाने तत्र कारणम् इतीत्यभिप्रायः।परेषु तं प्रतीति -- परेषां पीडानुभवं प्रतीत्यर्थः। भयचापलनिवृत्तेः पृथगुक्तत्वादुपस्थितायामपि महत्यामापदि शास्त्रीयानुष्ठानसङ्कल्पस्य अप्रच्युतावलम्बनमिह सात्त्विकी धृतिरित्यभिप्रायेणाह -- महत्यामिति।महत्यापदि सम्प्राप्ते() स्मर्तव्यो भगवान् हरिः [म.भा.2।68।42] इति सुकरमुख्यकर्तव्यापरित्यागादितरदपि कर्तव्यं कृतमेव हि स्यादिति भावः। वक्ष्यति च सात्त्विकीं धृतिंधृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः। योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी [18।33] इति। योगेनाव्यभिचारिण्या मोक्षसाधनभूतभगवदुपासनाख्यप्रयोजनेन प्रयोजनान्तरनिरपेक्षयेत्यर्थः। शरीरवाङ्मनांसि ह्यशुचिपुरुषस्पर्शाशुचिद्रव्योपयोगादिभिरुपहतसत्त्वानि तेषुतेषु कर्मस्वयोग्यानि शास्त्रैः शिष्यन्ते। तदभावोऽत्र शौचमित्याहबाह्येति। प्रत्यक्षसिद्धकरणपाटवादिरूपकृत्ययोग्यताव्यवच्छेदायाह -- शास्त्रीयेति। अहिंसाया उक्तत्वादद्रोहस्य ततो विशेषप्रदर्शनायाह -- परेष्वनुपरोध इति। प्रबलेन हि दुर्बलाः स्ववशे स्थापिताः,स्वाच्छन्द्यान्निवार्यन्ते? सोऽयमुपरोधः तदकरणमत्रानुपरोध इत्याह -- स्वच्छन्देति। स्वस्य तु योगोपकारी स्वच्छन्दवृत्तिनिरोधस्तप एव। अतःपरेष्विति विशेषितम्। मानो गर्व इति पर्यायस्तु सामान्यत इह निषेद्धुमिष्टः तथापि वंशवीर्यश्रुताद्यनुगुणं मात्रया भवन्नसौ सह्येतापि अन्यथा भवन्नसुराणां धर्मतया वक्ष्यमाणोऽत्र न प्रसङ्गमर्हतीत्यभिप्रायेण सोपसर्गमाननिषेध इत्याह -- अस्थाने गर्व इति।

दैवीं सम्पदम् इत्युक्ते देवानां विभूतिः प्रतीयेत सा चात्र नान्वेति अतोऽभिप्रेतमवतारयितुं व्युत्पत्तिं तावदाह -- देवसम्बन्धिनीति।सत्त्वं देवगुणं विद्यादितरावासुरौ गुणौ इति विभागात्?सत्त्वात्सञ्जायते ज्ञानम् [14।17] इति सत्त्वस्यानुष्ठानपर्यन्तज्ञानहेतुत्वाच्च सत्त्वोत्तरत्वादेव भगवदाज्ञां नातिवर्तन्ते तदादावेवाह -- भगवदाज्ञानुवृत्तिशीला इति। सैव च तेषां सम्पदभिमता। अविवेकिनां भोग्यतत्साधनसमृद्धिवत्तेषां भगवदाज्ञानुवृत्तेः प्रीतिविषयत्वात्परमपुरुषार्थहेतुत्वाच्चेत्याह -- सा चेति। उक्तं चमहात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः। भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् [9।13] इति। अन्यत्र चविष्णुभक्तिपरो देवः [वि.ध.109।74अ.पु.373।12] इति। जातस्येत्यकर्मकस्य जायतेः पतत्यादिष्विवोपसर्गवशाद्द्वितीयान्वयमाह -- तामभिमुखीकृत्येति।अभिरभागे [अष्टा.1।4।91] इति कर्मप्रवचनीययोगाद्वा द्वितीया।अभिमुखीकृत्य अभिलक्ष्य यथा दैवी सम्पद्भवति? तथा कृत्वा जातस्येति यावत्। ईदृशगुणयुक्तानामेवंविधायाः सम्पदोऽवश्यम्भावित्वमत्र अभिमुखीकरणं विवक्षितम्। तथा च स्मर्यते -- जायमानं हि पुरुषं यं पश्येन्मधुसूदनः। सात्त्विकः स तु विज्ञेयः स वै मोक्षार्थचिन्तकः इति। तदिदमाह -- तां निर्वर्तयितुं जातस्येति।,

Sanskrit Commentary By Sri Ramanuja

।।16.3।।तेजः दुर्जनैः अनभिभवनीयत्वम्।

क्षमा परनिमित्तपीडानुभवे अपि परेषुं तं प्रति चित्तविकाररहितता।

धृतिः महत्याम् अपि आपदि कृत्यकर्तव्यतावधारणम्।

शौचं बाह्यान्तःकरणानां कृत्ययोग्यता शास्त्रीया।

अद्रोहः परेषु अनुपरोधः परेषु स्वच्छन्दवृत्तिनिरोधरहितत्वम् इत्यर्थः।

नातिमानिता अस्थाने गर्वः अतिमानित्वम्? तद्रहितता।

एते गुणा दैवीं संपदम् अभिजातस्य भवन्ति। देवसम्बन्धिनी संपत् दैवी देवा भगवदाज्ञानुवृत्तिशीलाः? तेषां संपत्। सा च भगवदाज्ञानुवृत्तिः एव? ताम अभिजातस्य ताम् अभिमुखीकृतस्य जातस्य तां निर्वर्तयितुं जातस्य भवन्ति इत्यर्थः।