श्रीमद् भगवद्गीता

मूल श्लोकः

श्री भगवानुवाच

काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः।

सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः।।18.2।।

 



Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha



।।18.2।।पृथक्त्वैकत्वतत्स्वरूपजिज्ञासया प्रश्नश्चेत् तत्र कस्मिन्नंशेकाम्यानाम् इत्यादिमतभेदोपन्यासस्य सङ्गतिः इत्यत्राऽऽह -- अथेति।अयमभिप्रायः -- न्यायतो ह्यत्र निर्णयः प्रतिपाद्यते सन्दिग्धे च न्यायावतारः सन्देहश्चात्र वादिविप्रतिपत्तिनिबन्धन इति न्यायविषयविशोधनाय विप्रतिपत्त्युपन्यासः -- इति। एतेन कथितार्थयोरपि सन्न्यासत्यागशब्दयोर्विप्रतिपत्तिप्रशमनाय अस्मिन्नध्याये पुनः प्रश्न इत्यपि सूचितम्। एकत्वस्वीकारेण प्रतिवचनात् पृथकत्वप्रतिक्षेपोऽर्थसिद्ध इत्यभिप्रायेणाऽऽह -- एकमेव स्वरूपमिति। स्वमतस्यनिश्चयं श्रृणु [17।4] इति वक्ष्यमाणत्वात्।कवयःविचक्षणाः इति पदद्वयं नार्थप्राशस्त्यार्थवक्तृगौरवपरम् अपितु विप्रतिपत्त्युपयुक्तवेदनमात्रपरमित्यभिप्रायेणाऽऽह -- केचन विद्वांस इति। अनन्तरश्लोकेन भेदस्यएके? अपरे इति व्यक्तमुक्तत्वादिहापि तद्विवक्षेत्यभिप्रायेण -- केचनेत्युक्तम्।काम्यानां कर्मणां न्यासम् इति विशेषणादितरेषामपरित्यागः प्रतीयते उत्तरत्र चसर्वकर्मफलत्यागम् इति विशेषणादत्र काम्यस्वरूपत्यागश्चेत्यभिप्रायेणाऽऽह -- स्वरूपत्यागमिति। काम्यस्वरूपत्यागंवदतामयमभिप्रायः -- न तावन्नित्यनैमित्तिकवत् अकरणे प्रत्यवायात्कर्मान्तरानर्हतापत्तिभयाद्वा काम्यमनुष्ठीयते। न च त्रिवर्गसाधनाय? तस्यापवर्गप्रत्यनीकत्वात्। न च तदेव कर्मापवर्गस्यापि स्वयं साधनम्? उपासनादिनैरर्थक्यप्रसङ्गात्। नच विनियोगपृथक्त्वेन विद्याङ्गतया तत्परिग्रहः? यज्ञादिश्रुतेर्नित्यनैमित्तिकमात्रविषयत्वेऽपि विरोधाभावात्। अत एव हिसर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् [ब्र.सू.3।4।26] इत्यधिकरणमाश्रमधर्मसापेक्षतापरं भाष्यते। तस्मात्स्वर्गादिसंज्ञनरकहेतवः काम्याः क्रिया मुमुक्षुभिर्नानुष्ठेयाः -- इति।

सर्वकर्मफलत्यागमिति वदतांत्वयमाशयः -- फलविरोधाद्धि काम्यानां त्यागः शङ्क्यते अतः फलमेव त्यज्यताम्? न च निष्फलानुष्ठानप्रसङ्गः? नित्यनैमित्तिकवदेव भगवत्प्रीतिमात्रार्थतया तदनुष्ठानोपपत्तेः। न चैवं न विधिःयो वा एतदक्षरं गार्ग्यविदित्वा जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राणि अन्तवदेवास्य तद्भवति [बृ.उ.3।8।10] इत्यादिनाऽक्षरशब्दनिर्दिष्टपरमपुरुषवेदनावेदनाभ्यामेव तस्यैव कर्मणो नित्यानित्यफलसाधनत्वश्रुतेः। अतो नित्यनैमित्तिकानामिव काम्यानामपि न स्वरूपत्यागः -- इति।

विवादस्य भिन्नविषयत्वायोगादत्र त्यागसन्न्यासशब्दयोरेकार्थत्वावश्यम्भावात्पृथगर्थत्वशङ्कापरिहारोऽर्थलब्ध इत्याह -- तत्रेति। एतेन सन्न्यासत्यागशब्दयोः पृथगर्थत्वमङ्गीकृत्य कस्यचित्काम्यस्वरूपप्रहाणविषयतया कस्यचित्तु नित्यनैमित्तिकफलोपेक्षार्थतां च वदन्तः प्रत्युक्ताः। नह्यत्र काम्येतरकर्मफलत्यागमित्युच्यते। ततश्च सङ्कोचकाभावात् त्रिविधमपि कर्म संगृह्णाति। तदिदमुक्तं -- नित्यानां नैमित्तिकानां काम्यानां च सर्वेषां कर्मणामिति। नित्यानामपिप्राजापत्यं गृहस्थानाम् [वि.पु.1।6।37] इत्यादिना फलसंयोगोऽवगतः।

अत्र श्लोके त्यागसन्न्यासशब्दयोरर्थभेदव्युत्पादनपरतां निरसितुमैकार्थे प्रस्पष्टं हेतुद्वयमाह -- तथेति। नह्यर्थद्वयविषयेऽत्र विमर्शे अन्यतरस्यैव निश्चय उपपन्न इत्यभिप्रायेणोक्तंत्यागशब्देनैवेति।परस्परपर्यायतादर्शनाच्चेति -- अयमभिप्रायः -- नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते [18।7] इति निषिद्ध एव हि सन्न्यासः।मोहात्तस्य परित्यागः [18।7] इति त्यागशब्देनानूद्य तामसत्वेन निन्द्यते? अन्यथा जरद्गवादिवाक्यवत्परस्परानन्वयप्रसङ्गात्। एवंभवत्यत्यागिनां प्रेत्य [18।12] इत्युक्त एवार्थःन तु सन्न्यासिनां क्वचित् [18।12] इति व्यतिरेकेण दृढीक्रियते। न च तदन्यविधिरन्याभावस्य व्यतिरेकः। अत इमौ शब्दावत्राप्येकार्थावित्यङ्गीकृतम् -- इति प्रतिवक्त्रा भगवतेति शेषः।
 



Sanskrit Commentary By Sri Ramanuja

।।18.2।।श्रीभगवानुवाच -- केचन विद्वांसः काम्यानां कर्मणां न्यासं स्वरूपत्यागं संन्यासं विदुः केचित् च विचक्षणाः नित्यानां नैमित्तिकानां काम्यानां च सर्वेषां कर्मणां फलत्याग एव मोक्षशास्त्रेषु त्यागशब्दार्थः इति प्राहुः।तत्र शास्त्रीयः त्यागः काम्यकर्मस्वरूपविषयः? सर्वकर्मफलविषयः? इति विवादं प्रदर्शयन् एकत्र संन्यासशब्दम् इतरत्र त्यागशब्दं प्रयुक्तवान् अतः त्यागसंन्यासशब्दयोः एकार्थत्वम् अङ्गीकृतम् इति ज्ञायते।

तथानिश्चयं श्रृणु मे तत्र त्यागे भरतसत्तम। (गीता 18।4) इति त्यागशब्देन एव निर्णयवचनात्।नियतस्य तु संन्यासः कर्मणो नोपपद्यते। मोहात्तस्य परित्यागस्तामसः परिकीर्तितः।। (गीता 18।7)अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम्। भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित्।। (गीता 18।12) इति परस्परपर्यायतादर्शनात् च तयोः एकार्थत्वं प्रतीयते? इति निश्चीयते।।