श्रीमद् भगवद्गीता

मूल श्लोकः

अर्जुन उवाच

ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन।

तत्किं कर्मणि घोरे मां नियोजयसि केशव।।3.1।।

 

Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha



।।3.1।।अथ सङ्गतिं विवक्षुः साक्षान्मोक्षोपायं वक्ष्यमाण च तत्स्वरूपं तत्प्राप्यं च दर्शयन् द्वितीयाध्यायोक्ताथस्य साक्षान्मोक्षोपायत्वाभावेन अपवर्गप्रधाने शास्त्रे सङ्गत्यभावशङ्कां परिहर्तुमितिकर्तव्यतात्वं प्रथयति तदेवमिति। तत्शङ्कराद्युक्तप्रकारनिराकरणेन यथावत् द्वितीयाध्यायनिर्वाहादित्यर्थः।एवमिति स्वोक्तौचित्यं निर्दिशति। ब्रह्मविदाप्नोति परं तै.उ.2।1।1 परं ज्योतिरुपसम्पद्य छा.उ.8।3।4 परात्परं पुरुषमुपैति मुं.उ.3।2।8 रस्ँह्येवायं लब्ध्वाऽऽनन्दी भवति तै.उ.2।7 परमं साम्यमुपैति मुं.उ.आत्मदर्शनस्य परविद्याङ्गतायां प्रमाणं प्रपञ्चयति प्रजापतीति। फलवत्सन्निधावफलं तदङ्गम्। तत्र सन्निधिस्तावदुच्यते दहरेति। प्रत्यगात्मविषयत्वव्यक्त्यर्थं तत्प्रकरणोदितप्रत्यगात्मपरिशोधनप्रकारमाह जागरितेति। प्रजापतिर्हि क्रमाज्जागरिताद्यवस्थात्रयविशिष्टं प्रत्यगात्मानमुपदिदेश इन्द्रस्तु नाहमत्र भोग्यं पश्यामि छां.उ.8।9।10।2 इति तत्रतत्र विमुखः पुनः पुनः पप्रच्छ ततश्च शुश्रूषोर्योग्यतां विज्ञाय प्रजापतिः अशरीरं वाव सन्तम् छां.उ.8।12।1 इति परिशुद्धं स्वरूपमुक्तवान्। अत्राङ्गत्वसिद्ध्यर्थं दहरविद्यातः पृथक्फलाभावं तदेकफलत्वं चाह एवमेवेति।

एतदुक्तं भवति प्रजापतिवाक्यं हि दहरविद्याप्रकरणगतम् न च प्रजापतिवाक्योदितप्रत्यगात्मदर्शनस्य निश्श्रेयसातिरिक्तं फलमुक्तम् न च केवलप्रत्यगात्मदर्शनं निश्श्रेयससाधनं नान्यः पन्थाः श्वे.उ.3।86।15 इत्यादिविरोधात् तत्क्रतुन्यायाच्च न चात्र जीवप्राप्तिरेव फलमुच्यतेपरं ज्योतिः इति विशेषणात् नारायणः परं ज्योतिः म.ना.उ.11।4 इत्यादिना च परज्योतिश्शब्दस्य परमात्मविषयत्वप्रसिद्धेः दहरविद्यायां पूर्वत्रापि तस्यैव परज्योतिश्शब्देनोक्तेः उपसम्पत्तुत्मसम्पत्तव्याद्भेदस्य च स्वरससिद्धेः प्राप्तुरात्मनः परब्रह्मसाम्यापन्नपुरुषलभ्यनिरतिशयस्वच्छन्दभोगनिर्दुःखताद्यभिधानाच्च। अतः प्रधानफलस्यैवात्र तदङ्गेऽपिनिर्देशात्परविद्याङ्गं प्रत्यगात्मदर्शनम् इति।अथन जायते म्रियते 2।20 इत्यादिभिः कतिपयपदावापोद्वापभेदितैः श्लोकैः प्रत्यभिज्ञातार्थतया भगवद्गीताप्रबन्धसमानाकारां भक्तिशब्दकण्ठोक्तिमतीं कठवल्लीमुपनिषदमुक्तस्यार्थस्य निर्विशङ्कं विशदीकरणायोदाहरति अन्यत्रापीति। साङ्गसफलप्रधानविधिवाक्ये प्रधानांशमङ्गांशं च विभजते देवं मत्वेति। अध्यात्मयोगाधिगमेन इत्यत्र साक्षात्परविषययोगपरत्वेमत्वा इत्यस्य साध्यत्वायोगात् शास्त्रजन्यज्ञाने योगशब्दस्यावाचकत्वात्मत्वा इत्यत्र शास्त्रेणेत्यध्याहृत्य तद्व्युत्क्रमान्वयानौचित्याज्जीवस्यापि परवत्तत्रैव विवरिष्यमाणत्वाच्च जीवालम्बनयोगपरत्वं युक्तम्। अङ्गतया विहितस्य ज्ञानस्य ज्ञेयैकनिरूपणीयस्वरूपस्यापेक्षिकज्ञेयस्वरूपशोधनोपदेशमाह न जायत इति। एवं प्रथमषट्कोपबृंहणीयांश उक्तः। यथा सङ्गृहीतंज्ञानकर्मात्मिके निष्ठे योगलक्षे सुसंस्कृते। आत्मानुभूतिसिद्ध्यर्थे पूर्वषट्केन चोदिते गी.सं.2 इति। अथ द्वितीयतृतीयषट्कोपबृंहणीयांशमुदाहरति अणोरणीयानित्यादिना। इदमपि सङ्गृहीतम् मध्यमे भगवत्तत्त्वयाथात्म्यावाप्तिसिद्धये। ज्ञानकर्माभिनिर्वर्त्यो भक्तियोगः प्रकीर्तितः।।प्रधानपुरुषव्यक्तसर्वेश्वरविवेचनम्। कर्मधीर्भक्तिरित्यादिः पूर्वशेषोऽन्तिमोदितः गी.सं.34 इति।अणोरणीयान् इत्यादेरर्थमाहपरस्वरूपमिति।महान्तं विभुं इत्याद्युक्तमाह तदुपासनमिति।नायमात्मा इत्यस्याभिप्रेतमाह उपासनस्य चेति। केवलमनननिदिध्यासनश्रवणनिषेधमुखेन भक्त्याख्यवरणीयताहेतुगुणविशेषविधिपरमिदं वाक्यमिति शारीरकभाष्यादिषु विशदं व्याख्यातम्। मत्वा धीरो हर्षशोकौ जहाति मत्वा धीरो न शोचति इत्युक्तस्यैव परविद्याफलस्योपसंहारेऽपि विशदोपदेशं प्रत्यगात्मज्ञानस्यैतदेकफलत्वप्रदर्शनायाह विज्ञानेति। एवमुपक्रमोपसंहारादिभिः परविद्यामयेऽस्मिन् प्रकरणे अध्यात्मयोगाधिगमेन देवं मत्वा इति परमात्मज्ञानकारणतया निर्दिष्टं पृथक्फलरहितं च प्रत्यगात्मज्ञानं परविद्याङ्गतया सिद्धमिति तदुपबृंहणतया प्रतीयमानेऽस्मिन्नपि प्रकरणे तथात्वमध्यवसातव्यमित्युक्तं भवति।

एवं सङ्क्षेपोक्तिपर्यवसाने प्रतिपत्तिसौकर्याय कुमतिमतभङ्गाय चात्मज्ञानस्य वक्ष्यमाणपरविद्याङ्गतामुपपाद्य उक्तविस्तररूपस्य प्रथमषट्कशेषस्योक्तांशेन सङ्गतिमाह अतःपरमिति। एकस्मिन्नेव षट्के सङ्ग्रहविस्तररूपेण पेटिकाभेदप्रवृत्तिः। इदमेवेत्यवधारणेनाध्यायचतुष्टये परमात्मप्रसङ्गतद्ध्यानादेःयुक्त आसीत मत्परः 2।68 इति पूर्ववदेवात्मदर्शनशेषत्वमवगमयति। पुनरुक्तिपरिहारायप्रपञ्चयतीत्युक्तम्। सप्रयोजनत्वाय प्रपञ्चनप्रकारमाह ससाधनमिति।

अत्रार्जुनः प्रागेव समरव्यापारविरतिवासनायन्त्रितः कर्मयोगज्ञानयोगाख्यप्रवृत्तिनिवृत्त्यात्मकसाधनोपदेशे निवृत्त्युपदेशांशरसिकश्चोद्यमुखेन पृच्छति ज्यायसीति। प्रथमश्लोकस्यान्वयं तावदाह यदीति। कर्मणो बुद्धिर्ज्यायसीति कुत्रोपदिष्टम्दूरेण ह्यवरं कर्म बुद्धियोगात् 2।49 इत्यादि तु बुद्धिविशेषविशिष्टकर्मयोगपरमिति व्याख्यातम् ज्यायस्त्वं च किंरूपमिहाभिमतम् बुद्धेर्ज्यायस्त्वे च कर्मणि यथाधिकारं नियोगस्य को दोषः घोरशब्दश्च भयङ्करपर्यायः न च कर्मयोगो भयङ्करः किंशब्दश्चात्र प्रश्नपरो वा प्रतिक्षेपपरो वा इत्यादिकमाशङ्क्याह एतदुक्तमिति। तत्र बुद्धेर्ज्यायस्त्वप्रकारं पूर्वं तदुक्तिप्रकारं चाह ज्ञाननिष्ठैवेति। स्थितप्रज्ञताप्रकरणे कर्मणो ज्ञाननिष्ठाहेतुत्वमुक्तम् ज्ञाननिष्ठाया एव चात्मावलोकनहेतुत्वम् ततश्च अव्यवधानाद्बुद्धिर्ज्यायसीति यथाधिकारं नियोगानर्हत्वाय ज्ञाननिष्ठानिष्पादनस्य कर्मप्रत्यनीकरूपत्वमुक्तं प्रकटयति आत्मेति।यदा संहरते 2।58 इत्याद्युक्तं स्मारयति सकलेन्द्रियेत्यादिना। किंशब्दस्य प्रतिक्षेपपरत्वंज्यायसी चेत् इत्यत्र चेच्छब्दस्य निश्चितविषयत्वं चाभिप्रेत्यफलितमाह इन्द्रियव्यापारेति। सकलकर्मेत्यसङ्गकर्मसङ्ग्रहणपरम्।किमर्थमिति। न तावत् स्वप्रयोजनार्थं परिपूर्णत्वात् न च सांसारिकफलप्रदानार्थम् जनार्दनस्य जनिनिरासकस्य तव तन्निवर्तनस्वाभाव्यात् नापिभूभारभूतधार्तराष्ट्रादिवधनिमित्तीकृतमद्विप्रलम्भार्थम् प्रपन्नं मां प्रति केशवस्य ब्रह्मरुद्रादिपितुस्ते तदनौचित्यात् नापि फलशैघ्र्यार्थं पारम्पर्यस्य पूर्वमुपदिष्टत्वात् न च सौकर्यार्थम् अकरणनिमित्तप्रत्यवायपरिहारार्थं वासकलेन्द्रियव्यापाररूपत्वेन तदुपरतिनिष्पाद्यात्मावलोकनविरोधितया मुमुक्षोर्घोरत्वात् नच लोकसङ्ग्रहार्थं लोकस्यापि यथावस्थिताकारोपदेशस्यैवोचितत्वात्। अतो भवतः प्राणसमतया भवतैवोद्धोषितं मां भवदनभिमते कर्मणि न नियोजयितुमर्हसीति भावः।घोरशब्दस्यात्र शास्त्रीयप्राणिपीडनपरत्वायोगात् प्रकृतोपयुक्तमभिप्रेतमाह सर्वेन्द्रियव्यापाररूप इति। तथापि कथं घोरत्वमित्यत्राह आत्मावलोकनविरोधिनीति।

Sanskrit Commentary By Sri Ramanuja

।।3.1।।अर्जुन उवाच यदि कर्मणः बुद्धिः एव ज्यायसी इति ते मता किमर्थं तर्हि घोरे कर्मणि मां नियोजयसि एतदुक्तं भवतिज्ञाननिष्ठा एव आत्मावलोकनसाधनम् कर्मनिष्ठा तु तस्याः निष्पादिका आत्मावलोकनसाधनभूता च ज्ञाननिष्ठा सकलेन्द्रियमनसां शब्दादिविषयव्यापारोपरतिनिष्पाद्या इत्यभिहिता। इन्द्रियव्यापारोपरतिनिष्पाद्यम् आत्मावलोकनं चेद् सिषाधयिषितम् सकलकर्मनिवृत्तिपूर्वकज्ञाननिष्ठायाम् एव अहं नियोजयितव्यः किमर्थं घोरे कर्मणि सर्वेन्द्रियव्यापाररूपे आत्मावलोकनविरोधिनि कर्मणि मां नियोजयसि इति।