अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः।
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते।।13.32।।
श्रीमद् भगवद्गीता
।।13.32।। --,अनादित्वात् अनादेः भावः अनादित्वम्? आदिः कारणम्? तत् यस्य नास्ति तत् अनादि। यद्धि आदिमत् तत् स्वेन आत्मना व्येति अयं तु अनादित्वात् निरवयव इति कृत्वा न व्येति। तथा निर्गुणत्वात्। सगुणो हि गुणव्ययात् व्येति अयं तु निर्गुणत्वाच्च न व्येति इति परमात्मा अयम् अव्ययः न अस्य व्ययो विद्यते इति अव्ययः। यत एवमतः शरीरस्थोऽपि? शरीरेषु आत्मनः उपलब्धिः भवतीति शरीरस्थः उच्यते तथापि न करोति। तदकरणादेव तत्फलेन न लिप्यते। यो हि कर्ता? सः कर्मफलेन लिप्यते। अयं तु अकर्ता? अतः न फलेन लिप्यते इत्यर्थः।।कः पुनः देहेषु करोति लिप्यते च यदि तावत् अन्यः परमात्मनो देही करोति लिप्यते च? ततः इदम् अनुपपन्नम् उक्तं क्षेत्रज्ञेश्वरैकत्वम् क्षेत्रज्ञं चापि मां विद्धि (गीता 13।2) इत्यादि। अथ नास्ति ईश्वरादन्यो देही? कः करोति लिप्यते च इति वाच्यम् परो वा नास्ति इति सर्वथा दुर्विज्ञेयं दुर्वाच्यं च इति भगवत्प्रोक्तम् औपनिषदं दर्शनं परित्यक्तं वैशेषिकैः सांख्यार्हतबौद्धैश्च। तत्र अयं परिहारो भगवता स्वेनैव उक्तः स्वभावस्तु प्रवर्तते (गीता 5।14) इति। अविद्यामात्रस्वभावो हि करोति लिप्यते इति व्यवहारो भवति? न तु परमार्थत एकस्मिन् परमात्मनि तत् अस्ति। अतः एतस्मिन् परमार्थसांख्यदर्शने स्थितानां ज्ञाननिष्ठानां परमहंसपरिव्राजकानां तिरस्कृताविद्याव्यवहाराणां कर्माधिकारो नास्ति इति तत्र तत्र दर्शितं भगवता।।किमिव न करोति न लिप्यते इति अत्र दृष्टान्तमाह --,