श्रीमद् भगवद्गीता

मूल श्लोकः

अर्जुन उवाच

संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि।

यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्िचतम्।।5.1।।

 

Sanskrit Commentary By Sri Shankaracharya

।।5.1।। संन्यासं परित्यागं कर्मणां शास्त्रीयाणाम् अनुष्ठेयविशेषाणां शंससि प्रशंससि कथयसि इत्येतत्। पुनः योगं च तेषामेव अनुष्ठानम् अवश्यकर्तव्यंत्वं शंससि। अतः मे कतरत् श्रेयः इति संशयः किं कर्मानुष्ठानं श्रेयः किं वा तद्धानम् इति। प्रशस्यतरं च अनुष्ठेयम्। अतश्च यत् श्रेयः प्रशस्यतरम् एतयोः कर्मसंन्यासकर्मयोगयोः यदनुष्ठानात् श्रेयोऽवाप्तिः मम स्यादिति मन्यसे तत् एकम् अन्यतरत् सह एकपुरुषानुष्ठेयत्वासंभवात् मे ब्रूहि सुनिश्चितम् अभिप्रेतं तवेति।।स्वाभिप्रायम् आचक्षाणो निर्णयाय श्रीभगवानुवाच

Sanskrit Commentary By Sri Ramanuja

।।5.1।।अर्जुन उवाच कर्मणां सन्यासं ज्ञानयोगं पुनः कर्मयोगं च शंससि। एतद् उक्तं भवति द्वितीये अध्यायेमुमुक्षोः प्रथमं कर्मयोग एव कार्यः कर्मयोगेन मृदितान्तःकरणकषायस्य ज्ञानयोगेन आत्मदर्शनं कार्यम् इति प्रतिपाद्य पुनः तृतीयचतुर्थयोःज्ञानयोगाधिकारदशाम् आपन्नस्य अपि कर्मनिष्ठा एव ज्यायसी सा एव ज्ञाननिष्ठानिरपेक्षा आत्मप्राप्त्येकसाधनम् इति कर्मनिष्ठां प्रशंससि इति। तत्र एतयोः ज्ञानयोगकर्मयोगयोः आत्मप्राप्तिसाधनभावे यद् एकं सौकर्यात् शैघ्र्यात् च श्रेयः श्रेष्ठम् इति सुनिश्चितम् तत् मे ब्रूहि।

Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha



।।5.1।।अथ पञ्चमस्यांशतस्तृतीयचतुर्थाभ्यां सङ्गतिप्रदर्शनायोक्तानुक्तांशविवेकेन पञ्चमस्यानुक्तांशे तात्पर्यप्रदर्शनाय चाह चतुर्थेऽध्याय इति।कर्मयोगस्य ज्ञानाकारतेत्यादिकं चतुर्थाध्यायप्रधानार्थोऽयमिति द्योतनार्थं सङ्गतिप्रदेशप्रदर्शनार्थं च।तृतीय एवेति कर्तव्यतोपदेशलक्षण एवेत्यर्थः। पञ्चमार्थमाह इदानीमिति। अत्रैवं सङ्ग्रहश्लोकः कर्मयोगस्य सौकर्यं शैघ्र्यं काश्चन तद्विधाः। ब्रह्मज्ञानप्रकारश्च पञ्चमाध्याय उच्यते गी.सं.9 इति। अत्रसौकर्यं शैघ्र्यं इति सङ्गृहीतत्वेऽपि भाष्ये शैघ्र्यमात्रवचनं सौकर्यस्य तृतीयाध्यायोक्तस्यैवानुवादः पञ्चमे शैघ्र्यौपयिकतया क्रियत इति ज्ञापनार्थम् शैघ्र्यं तु तत्रानुक्तत्वादत्र साक्षात्प्रतिपाद्यम्।काश्चन तद्विधाःब्रह्मज्ञानप्रकारश्च इत्युभयोर्व्याख्यानरूपेणकर्मयोगेत्यादिना तृतीयचतुर्थाभ्यामंशतः सङ्गतिरुक्ता भवति।ज्ञाननिष्ठाया इति पञ्चमी। तत्रप्रकारशब्देनविशोध्यत इति वचनाच्चानुक्तांशतात्पर्येणापौनरुक्त्यं दर्शितम्।तन्मूलं ज्ञानमिति विपाकदशापन्नज्ञानं विवक्षितम्।

अथतद्विद्धि प्रणिपातेन 4।34 इत्येतदनुसन्दधानोऽनुक्तमपेक्षितमंशं सञ्चिज्ञासुरुक्तमेवार्थं परिपृच्छन्नर्जुन उवाचसन्न्यासं इति। सन्न्यासयोगशब्दावत्र प्रकृतवक्ष्यमाणसाङ्ख्ययोगविषयतया नाथान्तरपरावित्यभिप्रायेणाह कर्मणां सन्न्यासं ज्ञानयोगमिति। कर्मणामित्येतदुभयान्वितम्। ननु कर्मयोगस्य त्याज्यत्वं क्वचिदपि नोक्तम् प्रत्युत तदेवोपादेयतया प्रपञ्चितम् न च ज्ञानयोगस्य प्रशंसा क्वापि कृता येनसन्न्यासं৷৷.योगं च शंससि इत्युच्यते उभयोः प्रशंसने कृतेऽपि विकल्प इत्येव मन्तव्यं न पुनरन्यतराधिक्यप्रश्नावकाश इत्यत्राह एतदुक्तमिति।प्रतिपाद्येत्यन्तेनसन्न्यासं कर्मणाम् इत्यस्याभिप्रायो विवृतः। कषायनिवृत्त्यर्थः कर्मयोगः तन्निवृत्तौ कर्मयोगं परित्यज्य ज्ञानयोग उपादेयः अतो ज्ञानयोग एवात्मदर्शने साक्षात्साधनमिति द्वितीये प्रतिपादितमिति भावः। पूर्वं सन्न्यस्तस्य पुनर्योगं शंससीति भ्रमव्युदासायशंससि इत्यनेन पुनःशब्दान्वयमाह तृतीयचतुर्थयोरिति।द्वितीये इत्येतत्तृतीयचतुर्थयोः इत्येतच्च भाष्यकारैः स्वानुसन्धानेनोक्तम् न पुनरर्जुनवाक्यानुकारः। अत्र मृदितकषायस्य कर्मयोगस्त्याज्यश्चेत्कथमुपादेयः ज्ञानयोगस्य दर्शनसाधनत्वे कथमव्यवधानेन तत्सम्भव इति भावः।कर्म ज्यायो ह्यकर्मणः 3।8 इति ज्यायस्त्वेन शंसनमित्यभिप्रायेणाहप्रशंससीति।तत्रेति द्वयोरप्यव्यवहितसाधनत्वे विवक्षिते इत्यर्थः।एतयोरित्यत्र निर्धारितान्यतरविषय एकशब्दः। तत्र सामान्याकारविवक्षया नपुंसकत्वं श्रेयश्शब्दविशेषणतया वा।सौकर्याच्छैघ्र्याच्चेति फलस्यैकत्वात्तन्निबन्धनं श्रैष्ठ्यमिहायुक्तमिति भावः। श्रेयः सुनिश्चितमित्यन्वयः। श्रेयस्त्वेन सुनिश्चितमित्यर्थः। क्रियाविशेषणत्वं तु निरर्थकमित्यभिप्रायेणाहश्रेष्ठमिति।सुनिश्चितमिति श्रेयश्शब्दस्य फलादिष्वपि प्रयोगप्राचुर्यात्तद्व्युदासाय तारतम्यप्रश्नानुगुण्येन प्रकृतिप्रत्ययार्थव्यञ्जनाय श्रेष्ठशब्देन व्याख्यातम्। अत्रैकफलसाधनत्वाद्विकल्पे प्राप्ते सौकर्यादिगुणयोगाच्छ्रेयस्त्वोक्तिः।

English Translation By Swami Adidevananda

5.1 Arjuna said You praise, O Krsna, the renunciation of actions and then praise Karma Yoga also. Tell me with certainly which of these is the superior one leading to the ultimate good.

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

5.1 Arjuna said 'You praise the renunciation of actions, i.e., Jnana Yoga at one time, and next Karma Yoga'. This is what is objected to: In the second chapter, you have said that Karma Yoga alone should be practised first by an aspirant for release; and that the vision of the self should be achieved by means of Jnana Yoga by one whose mind has its blemishes washed away by Karma Yoga. Again, in the third and fourth chapters, you have praised Karma Yoga or devotion to Karma as better than Jnana Yoga even for one who has attained the stage of Jnana Yoga, and that, as a means of attaining the self, it (Karma Yoga) is independent of Jnana Yoga. Therefore, of these two, Jnana Yoga and Karma Yoga - tell me precisely which by itself is superior, i.e., most excellent, being more easy to practise, and icker to confer the vision of the self.