य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते।।2.19।।
श्रीमद् भगवद्गीता
मूल श्लोकः
Sanskrit Commentary By Sri Shankaracharya
।।2.19।।
य एनं प्रकृतं देहिनं वेत्ति विजानाति हन्तारं हननक्रियायाः कर्तारं यश्च एनम् अन्यो मन्यते हतं देहहननेन हतः अहम् इति हननक्रियायाः कर्मभूतम् तौ उभौ न विजानीतः न ज्ञातवन्तौ अविवेकेन आत्मानम्। हन्ता अहम् हतः अस्मि अहम् इति देहहननेन आत्मानमहंप्रत्ययविषयं यौ विजानीतः तौ आत्मस्वरूपानभिज्ञौ इत्यर्थः। यस्मात् न अयम् आत्मा हन्ति न हननक्रियायाः कर्ता भवति न च हन्यते न च कर्म भवतीत्यर्थः अविक्रियत्वात्।।
कथमविक्रय आत्मेति द्वितीयो मन्त्रः