श्रीमद् भगवद्गीता

मूल श्लोकः

श्री भगवानुवाच

अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते।

भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः।।8.3।।

 

Sanskrit Commentary By Sri Sridhara Swami

।।8.3।। प्रश्नक्रमेणोत्तरं श्रीभगवानुवाच -- अक्षरमिति त्रिभिः। न क्षरति न चलतीत्यक्षरम्। ननु जीवोऽप्यक्षरस्तत्राह -- परमं यदक्षरं जगतां मूलकारणं तद्ब्रह्मएतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति इति श्रुतेः। स्वस्यैव ब्रह्मण एवांशतो जीवरूपेण भवनं स्वभावः स एवात्मानं देहमधिकृत्य भोक्तृत्वेन वर्तमानोऽध्यात्मशब्देनोच्यत इत्यर्थः। भूतानां जरायुजादीनां भाव उत्पत्तिः उद्भवश्च उत्कृष्टत्वेन भवनमुद्भवःआदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः इत्युक्तक्रमेण वृद्धिः तौ भूतभावोद्भवौ करोति यः विसर्गः देवतोद्देशेन द्रव्यत्यागरूपो यज्ञः। सर्वकर्मणामुपलक्षणमेतत्। स कर्मशब्दवाच्यः।