श्रीमद् भगवद्गीता

मूल श्लोकः

अर्जुन उवाच

किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम।

अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते।।8.1।।

 

Sanskrit Commentary By Sri Sridhara Swami

।।8.1।।ब्रह्मकर्माधिभूतादि विदुः कृष्णैकचेतसः। इत्युक्तं ब्रह्मकर्मादि स्पष्टमष्टम उच्यते।।1।।

पूर्वाध्यायान्ते भगवतोपक्षिप्तानां ब्रह्माध्यात्मादिसप्तानां पदार्थानां तत्त्वं जिज्ञासुरर्जुन उवाच -- किं तद्ब्रह्मेति द्वाभ्याम्। स्पष्टोऽर्थः।