योगसूत्र

सूत्र

तदा द्रष्टुः स्वरूपेऽवस्थानम्।।1.3।।

भाष्य

।।1.3।। स्वरूपप्रतिष्ठा तदानीं चितिशक्तिर्यथा कैवल्ये। व्युत्थानचित्ते तु सति तथाऽपि भवन्ति न तथा।

कथं तर्हि दर्शितविषयत्वात्

भोजवृत्ति

।।1.3।। द्रष्टुः पुरुषस्य तस्मिन्काले स्वरूपे चिन्मात्रतायामवस्थानं स्थितिर्भवति। अयमर्थः उत्पन्नविवेकख्यातेश्चित्संक्रमाभावात् कर्तृत्वाभिमाननिवृत्तौ प्रोच्छन्नपरिणामायां बुद्धौ चाऽत्मानः स्वरूपेणावस्थानं स्थितिर्भवति।

व्युत्थानदशायान्तु तस्य किं रूपम् इत्याह