योगसूत्र

सूत्र

त्रयमन्तरङ्गं पूर्वेभ्यः।।3.7।।

भाष्य

।।3.7।। तदेतद्धारणाध्यानसमाधित्रयमन्तरङ्गं संप्रज्ञातस्य समाधेः पूर्वेभ्यो यमादिभ्यः पञ्चभ्यः साधनेभ्य इति।

भोजवृत्ति

।।3.7।। पूर्वेभ्यो यमादिभ्यो योगाङ्गेभ्यः पारम्पर्येण समाधेरुपकारकेभ्यो धारणादियोगाङ्गत्रयं संप्रज्ञातस्य समाधेरन्तरङ्गं समाधिस्वरूपनिष्पादनात्।।

तस्यापि समाध्यन्तरापेक्षया बहिरङ्गत्वमाह