योगसूत्र

सूत्र

ततः क्लेशकर्मनिवृत्तिः।।4.30।।

भाष्य

।।4.30।। तल्लाभादविद्यादयः क्लेशाः समूलकाषं कषिता भवन्ति। कुशलाकुशलाश्च कर्माशयाः समूलघातं हता भवन्ति। क्लेशकर्मनिवृत्तौ जीवन्नेव विद्वान्विमुक्तो भवति। कस्मात् यस्माद्विपर्ययो भवस्य कारणम्। न हि क्षीणक्लेशविपर्ययः कश्चित्केनचित्क्वचिज्जातो दृश्यत इति।


भोजवृत्ति

।।4.30।। क्लेशानामविद्यादीनामभिनिवेशान्तानां कर्मणां च शुक्लादिभेदेन त्रिविधानां ज्ञानोदयात्पूर्वपूर्वकारणनिवृत्त्या निवृत्तिर्भवति।

तेषु निवृत्तेषु किं भवतीत्यत आह