योगसूत्र

सूत्र

प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम्।।4.5।।

भाष्य

।।4.5।। बहूनां चित्तानां कथमेकचित्ताभिप्रायपुरःसरा प्रवृत्तिरिति सर्वचित्तानां प्रयोजकं चित्तमेकं निर्मिमीते ततः प्रवृत्तिभेदः।

भोजवृत्ति

।।4.5।। तेषामनेकेषां चेतसां प्रवृत्तिभेदे व्यापारनानात्व एकं योगिनश्चित्तं प्रयोजकं प्रेरकमधिष्ठातृत्वेन तेन न भिन्नमतत्वम्। अयमर्थः यथाऽऽत्मीय शरीरे मनश्चक्षुः पाण्यादीनि यथेच्छं प्रेरयति अधिष्ठातृत्वेन तथा कायान्तरेष्वपीति।

जन्मादिप्रभवत्वात्सिद्धीनां चित्तमपि तत्प्रभवं पञ्चविधमेक अतः जन्मादिप्रभवाच्चित्तात्समाधिप्रभवस्य चित्तस्य वैलक्षण्यमाह