ब्रह्मसूत्र

संस्कारपरामर्शात्तदभावाभिलापाच्च।।1.3.36।।

।।1.3.36।।

इतश्च न शूद्रस्याधिकारः यद्विद्याप्रदेशेषूपनयनादयः संस्काराः परामृश्यन्ते तं होपनिन्ये अधीहि भगव इति होपससाद ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः इति च। तान्हानुपनीयैव इत्यपि प्रदर्शितैवोपनयनप्राप्तिर्भवति। शूद्रस्य च संस्काराभावोऽभिलप्यते शूद्रश्चतुर्थो वर्ण एकजातिः इत्येकजातित्वस्मरणात्। न शूद्रे पातकं किंचिन्न च संस्कारमर्हति इत्यादिभिश्च।।